Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
पद्मसुन्दरविरचितं शुभाशुभोपयोगात्मजपातापिच्छरञ्जितः । शुद्धस्फटिकचिद्रपो द्रवत्येकोऽप्यनेकधा ॥८॥ नार्थः स्वामपहाय चित्परिणतिं सत्तामिहालम्बते नासौ तेन तदाश्रयाऽविरहिता शून्यप्रसङ्गत्वतः । दव्यं तद्गुणपर्ययानधिवसच्चाश्रित्य तच्चापरैर्भावैरात्मभु वा सहक्रमभवरस्तित्वनिर्वर्तितम् ॥९॥ धर्मात्माऽयमनीदृशं परिणतश्चारित्रधर्म पुमानन्तर्बाह्यविकल्पजालरहितः शुद्धोपयोगी भवन् । आत्माऽऽत्मन्यवभासते व्युपरतो निष्प्रत्यनीकः परात् तद्वत्तामतिलय कर्मवशगो बन्धं समासादयेत् ॥१०॥ कमभिलपति नैवात्मानुभूति विहाय स्वयमपरमनन्ताहादरूपस्वरूपम् । ज्वलदचलमखण्डज्ञानमाधन्तमुक्तं स्फुटमनुभवविद्वन्नात्मसादात्मनैव ॥११॥ व्यवहरणबलेन स्वान्यभावानुभूतिव्यतिकरपरिरम्भाऽऽदानहानाप्ततत्त्वः । सकलकलुषशुद्धस्वान्तविश्रान्तमूर्तिः स्पृशति विगतरागः सौवमुद्दाम धाम ॥१२॥ निर्भिद्योद्धतबन्धपद्धतिधुरामुद्भिद्य चिच्छक्तितामुद्ग्रन्थिग्रथितान्तरायविगमादुज्जम्भमाणः स्वयम् । साक्षादक्षपरोक्षनिर्मलतरज्ञानप्रभाभासुरो ज्ञेयान्तर्गतनिर्विकारपरमानन्दात्मना नन्दति ॥१३।। परमानन्दनिस्यन्दपीयूषरसनिर्भरः । परमात्माऽयमुद्गच्छन्नच्छचिच्छक्तिमात्रताम् ॥१४॥ शुद्धज्ञायकभावनिर्भरतया स्वातन्त्र्यमुद्रां दधत् तवृत्तेर्विपरीतता कलयतः कर्मत्वमालम्बते । बिभ्राणः करणत्वमक्षमतयाऽन्यैः सम्प्रदानीभव
न्नज्ञानापगमस्वभावमुदपादानी पराऽऽधारवान् ॥१५॥ १५ (श्लोकाङ्कः) = तदी १. १६ (पृ. २०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68