Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
ज्ञानचन्द्रोदयनाटकम् । यद्यर्था न चिदि स्फुटं न तदपि ज्ञानं लसत्यात्मनि । स्वं साक्षान्मुकुरुन्दसुन्दरलसदबिम्बानुगं बिभ्रति ॥३०॥" नात्मानुभूतिमपहाय परानुभूतिमुन्मेषयत्यमलकेवलचन्द्रकान्तिः । आनन्दकन्दमकरन्दमनपङ्कः स्वं धाम चेतयति चेतनचञ्चरीकः ॥३१॥
अभ्यस्यतामुपरताखिलवाच्यवीचिकल्लोलजालकलनाभिरभिप्रशान्तः । *नाऽनन्यजन्यमहिमा महिमानमस्य किं वर्णयाम कवलीकृतवाक्प्रपञ्चम् ॥३२॥ शब्दब्रह्मवितर्कवाक्यरचनातज्ज्ञप्तिरेव श्रुतं तत्सञ्चेतनयैव चेतनमयो निर्द्वन्द्वतामुल्लसन् । ज्ञानज्ञायक एष एव परमैश्वर्यावलम्बी परानन्तर्लीनविशुद्धबोधपरमो निर्भेदमाभेदयन् ॥३३॥
पश्य मार्गमवगम्य योगिनां पुद्गलात् किमपि धाम यत् पृथक् । कीदृशी स्तिमितलोचनस्य ते पोस्फुरीति मतिरद्भुताद्भुता ॥३४॥ द्वैतभावमपहाय निश्चलस्वानुभूतिविषयीकृतात्मना । भूतभावभवदीक्षणक्षम चेतयाऽऽशु चिति चेतनात्मकम् ॥३५॥ परिच्छेत्ता मृग्यः स्पपरपरिणामस्य महती क्रिया ज्ञप्तिः स्वस्मिन्नवतरति विज्ञानविषया । नयानीकक्षोभक्षपणनिपुणानन्तमहिम
प्रकाशस्वातन्त्र्यं लसति परभावं कवलयन् ॥३६॥ ३३ = तदी १.३४ । ३६-३७=तदी १.३६ । *'ना पुरुषः' इति प्रतौ टिप्पणम् ।
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68