Book Title: Gurutattvavinischay Part 1
Author(s): Yashovijay Upadhyay, Rajshekharsuri
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 378
________________ ११३८ [ स्त्रोपशवृत्ति-गुर्जरभाषाभावानुवादयुते योगावेककालं कर्तुमसमर्थ इति कृत्वा साऽऽरोपणा स्थापितका । कृत्स्ना नाम यत्र झोषो न क्रियते । अकृत्स्ना यत्र किञ्चिज्झोष्यते । हाडहडा त्रिविधा-सद्योरूपा स्थापिता प्रस्थापिता च । तत्र लघुगुरुमासिकादि यत्तप आपन्नस्तद् यदि तत्कालमेव दीयते न कालक्षेपेण तदा सा हाडहडारोपणा सद्योरूपा । य: पुनर्यन्मासिकादिकमापन्नस्तद्वयावृत्त्यमाचार्यादीनां करोतीति स्थापित क्रियते, तस्मिंश्च स्थापिते यान्यदुवातमनुद्घातं वाऽऽपद्यते तस्सर्वमपि प्रमादनिवारणार्थमनुद्घातं यदारोप्यते सा हाइहडा स्थापिता । पाण्मासिकपाश्चमासिकादितपो वहन् यदन्यदन्तराऽऽपद्यते तत्तस्यातिप्रमादनिवारणार्थमनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेन वाऽनुद्वातमारोप्यते एषा हाडहडा प्रस्थापिता । अनुग्रहकृत्स्ननिरनुग्रहकृस्नस्वरूपं च षद्कृत्स्नप्ररूपणेना वगन्तव्यम् , तानि चेमानि-प्रतिसेवनाकृत्स्नम् १ सञ्चयकृत्स्नम् २ आरोपणाकृत्स्नम् ३ अनुप्रहकृत्स्नम् ४ अनुद्घातकृत्स्नम् ५ निरवशे वकृत्स्न ६ मिति । तत्र प्रतिसेवनाकृत्स्नं पाराश्चितम् , यतः परमन्यत् प्रतिसेवनास्थानं नास्ति । सञ्चयकृत्स्नमशीतं मासशतम् । अतः परस्य सञ्चयस्याभावात् । आरोपणाकृत्स्नं पाण्मासिकम् , ततः परस्य भगवतो वर्द्धपानस्वामिनस्तीर्थे आरोपणस्याभावात् । अनुग्रहकृत्स्नं यत् षण्णां मासानामारोपितानां षड् दिवसा गतास्तदनन्तरमन्यान् षण्मासानापन्नस्ततो यद् व्यूढं तत् समस्तं झोषितम् , पश्चाद् यदन्यत् पाण्मासिकमापन्नं तदूह्यते, अत्र चतुर्विंशतिदिनाधिकपञ्चमासरूपबहुदिनझोषणेनानुग्रहसद्भावात् । एतेन च निरनुग्रहकृत्स्नमपि सूचितं द्रष्टव्यम् , तच्चैवं भावनीयम् -षण्मासे प्रस्थापिते पञ्च मासाश्चतुर्विशतिदिवसाश्च व्यूढास्तदनन्तरमन्यत् पाण्मासिकमापन्नस्ततस्तद्वहति पूर्वषण्मासस्य षड् दिवसा झोषिता इति बहुदिनाझोषणेनानुग्रहाभावान्निरनुग्रहकृत्स्नमेतदिति । अनुद्घात कृत्स्नं कालगुरुमासगुरुकादि मासलघुकाद्यपि वा निरन्तरं दीयमानम् । अथवाऽनुद्घातं त्रिविधं कालगुरु तपोगुरु उभयगुरु च । तत्र कालगुरु नाम यद् ग्रीष्मादौ कर्कशे काले दीयते, तपोगुरु यदष्टमादि दीयते निरन्तरं वा, उभयगुरु यद् ग्रीष्मादौ काले निरन्तरं च दीयते । निरवशेषकृत्स्नं नाम यदापन्नं तत्सर्वमन्यूनातिरिक्तं दीयत इति ॥२९४॥ હાડહડ પ્રાયશ્ચિત્ત આપણા વિશેષ રૂપ છે. માટે આરોપણાના ભેદો જ બતાવે છે:" પ્રાયશ્ચિત્તની આરોપણના પ્રથાપિતકા, સ્થાપિતા, કૃરના, અકૃત્ના અને હાડહડા એમ પાંચ પ્રકાર છે. તે પ્રાયશ્ચિત્ત કૃતકરણ આદિ પ્રકારના પુરુષમાં યોગ્યતા પ્રમાણે જાણવું. (અર્થાત્ કૃતકરણ આદિ પુરુષને યોગ્યતા પ્રમાણે આ પ્રાયશ્ચિત્ત અપાય છે.) (૧) આપેલું પ્રાયશ્ચિત્ત પૂરું કરવા માટે શરૂ કરી દીધું હોય એ પ્રસ્થાપિતકા છે. (૨) વૈયાવચ્ચ કરવાની લબ્ધિવાળાને સાધુ, આચાર્ય વગેરેની વૈયાવચ્ચ કરતાં જે પ્રાયશ્ચિત્ત આવે તે તેને આપી દીધું હોવા છતાં વૈયાવચ્ચ પૂરી થાય ત્યાં સુધી મૂકી રાખવામાં આવે=ન કરવામાં આવે તે આપણા સ્થાપિત છે. વૈયાવચ્ચ કરનાર બે યોગો (વૈયાવચ્ચ અને ત૫) એકી સાથે કરવા સમર્થ ન હોય એથી આપેલું પ્રાયશ્ચિત્ત મૂકી રાખવામાં આવે. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416