________________
११३८
[ स्त्रोपशवृत्ति-गुर्जरभाषाभावानुवादयुते योगावेककालं कर्तुमसमर्थ इति कृत्वा साऽऽरोपणा स्थापितका । कृत्स्ना नाम यत्र झोषो न क्रियते । अकृत्स्ना यत्र किञ्चिज्झोष्यते । हाडहडा त्रिविधा-सद्योरूपा स्थापिता प्रस्थापिता च । तत्र लघुगुरुमासिकादि यत्तप आपन्नस्तद् यदि तत्कालमेव दीयते न कालक्षेपेण तदा सा हाडहडारोपणा सद्योरूपा । य: पुनर्यन्मासिकादिकमापन्नस्तद्वयावृत्त्यमाचार्यादीनां करोतीति स्थापित क्रियते, तस्मिंश्च स्थापिते यान्यदुवातमनुद्घातं वाऽऽपद्यते तस्सर्वमपि प्रमादनिवारणार्थमनुद्घातं यदारोप्यते सा हाइहडा स्थापिता । पाण्मासिकपाश्चमासिकादितपो वहन् यदन्यदन्तराऽऽपद्यते तत्तस्यातिप्रमादनिवारणार्थमनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेन वाऽनुद्वातमारोप्यते एषा हाडहडा प्रस्थापिता । अनुग्रहकृत्स्ननिरनुग्रहकृस्नस्वरूपं च षद्कृत्स्नप्ररूपणेना वगन्तव्यम् , तानि चेमानि-प्रतिसेवनाकृत्स्नम् १ सञ्चयकृत्स्नम् २ आरोपणाकृत्स्नम् ३ अनुप्रहकृत्स्नम् ४ अनुद्घातकृत्स्नम् ५ निरवशे वकृत्स्न ६ मिति । तत्र प्रतिसेवनाकृत्स्नं पाराश्चितम् , यतः परमन्यत् प्रतिसेवनास्थानं नास्ति । सञ्चयकृत्स्नमशीतं मासशतम् । अतः परस्य सञ्चयस्याभावात् । आरोपणाकृत्स्नं पाण्मासिकम् , ततः परस्य भगवतो वर्द्धपानस्वामिनस्तीर्थे आरोपणस्याभावात् । अनुग्रहकृत्स्नं यत् षण्णां मासानामारोपितानां षड् दिवसा गतास्तदनन्तरमन्यान् षण्मासानापन्नस्ततो यद् व्यूढं तत् समस्तं झोषितम् , पश्चाद् यदन्यत् पाण्मासिकमापन्नं तदूह्यते, अत्र चतुर्विंशतिदिनाधिकपञ्चमासरूपबहुदिनझोषणेनानुग्रहसद्भावात् । एतेन च निरनुग्रहकृत्स्नमपि सूचितं द्रष्टव्यम् , तच्चैवं भावनीयम् -षण्मासे प्रस्थापिते पञ्च मासाश्चतुर्विशतिदिवसाश्च व्यूढास्तदनन्तरमन्यत् पाण्मासिकमापन्नस्ततस्तद्वहति पूर्वषण्मासस्य षड् दिवसा झोषिता इति बहुदिनाझोषणेनानुग्रहाभावान्निरनुग्रहकृत्स्नमेतदिति । अनुद्घात कृत्स्नं कालगुरुमासगुरुकादि मासलघुकाद्यपि वा निरन्तरं दीयमानम् । अथवाऽनुद्घातं त्रिविधं कालगुरु तपोगुरु उभयगुरु च । तत्र कालगुरु नाम यद् ग्रीष्मादौ कर्कशे काले दीयते, तपोगुरु यदष्टमादि दीयते निरन्तरं वा, उभयगुरु यद् ग्रीष्मादौ काले निरन्तरं च दीयते । निरवशेषकृत्स्नं नाम यदापन्नं तत्सर्वमन्यूनातिरिक्तं दीयत इति ॥२९४॥
હાડહડ પ્રાયશ્ચિત્ત આપણા વિશેષ રૂપ છે. માટે આરોપણાના ભેદો જ બતાવે છે:" પ્રાયશ્ચિત્તની આરોપણના પ્રથાપિતકા, સ્થાપિતા, કૃરના, અકૃત્ના અને હાડહડા એમ પાંચ પ્રકાર છે. તે પ્રાયશ્ચિત્ત કૃતકરણ આદિ પ્રકારના પુરુષમાં યોગ્યતા પ્રમાણે જાણવું. (અર્થાત્ કૃતકરણ આદિ પુરુષને યોગ્યતા પ્રમાણે આ પ્રાયશ્ચિત્ત અપાય છે.)
(૧) આપેલું પ્રાયશ્ચિત્ત પૂરું કરવા માટે શરૂ કરી દીધું હોય એ પ્રસ્થાપિતકા છે. (૨) વૈયાવચ્ચ કરવાની લબ્ધિવાળાને સાધુ, આચાર્ય વગેરેની વૈયાવચ્ચ કરતાં જે પ્રાયશ્ચિત્ત આવે તે તેને આપી દીધું હોવા છતાં વૈયાવચ્ચ પૂરી થાય ત્યાં સુધી મૂકી રાખવામાં આવે=ન કરવામાં આવે તે આપણા સ્થાપિત છે. વૈયાવચ્ચ કરનાર બે યોગો (વૈયાવચ્ચ અને ત૫) એકી સાથે કરવા સમર્થ ન હોય એથી આપેલું પ્રાયશ્ચિત્ત મૂકી રાખવામાં આવે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org