Book Title: Dashvaikalik Sutram Part 02
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust
________________ IT #. YEN शालिश भाग- 2ERE मध्य. 4 सू21 - 1 છેવગેરે વ્યંજનો છે. આ બધાથી વિશુદ્ધ એવા અધ્યયનાર્થોને કહે. मा uथार्थ थयो. इदानीं त्रसाधिकार एतदाह-'से जे पुण इमे' इति, सेशब्दोऽथशब्दार्थः, असावप्यु* पन्यासार्थः, 'अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्विति वचनात्, * | अथ ये पुनरमी-बालादीनामपि प्रसिद्धा अनेके-द्वीन्द्रियादिभेदेन बहवः एकैकस्यां जाती न त्रसाः-त्रस्यन्तीति त्रसाः प्राणा-उच्छासादय एषां विद्यन्त इति प्राणिनः, तद्यथा-अण्डजा न | मो इत्यादि, एष खलु षष्ठो जीवनिकायः त्रसकाय इति प्रोच्यत इति योगः, तत्राण्डाज्जाता मो / अण्डजाः-पक्षिगृहकोकिलादयः, पोता एव जायन्त इति पोतजाः, “अन्येष्वपि दृश्यते" (पा० 3-2-101) डप्रत्ययो जनेरिति वचनात् / ते च हस्तिवल्गुली| चर्मजलौकाप्रभृतयः, जरायुवेष्टिता जायन्त इति जरायुजा-गोमहिष्यजाविकमनुष्यादयः, अत्रापि पूर्ववड्डप्रत्ययः, रसाज्जाता रसजा:-तक्रारनालदधितीमनादिषु पायुकृ म्याकृतयो ऽतिसूक्ष्मा भवन्ति, संस्वेदाज्जाता इति संस्वेदजामत्कुणयूकाशतपदिकादयः, संमूर्च्छनाज्जाताः संमूर्च्छनजाः-शलभपिपीलिकामक्षिकाशालूकादयः उद्भेदाज्जन्म येषां ते उद्भेदाः, अथवा उद्भेदनमुद्भित् उद्भिज्जन्म येषां ते उद्भिज्जा:-पतङ्खञ्जरीटपारिप्लवादयः, उपपाताज्जाता उपपातजाः अथवा उपपाते भवा औपपातिका-देवा नारकाश्च / एतेषामेव लक्षणमाह-येषां | केषाञ्चित्सामान्ये नैव प्राणिनां-जीवानामभिक्रान्तं भवतीति वाक्यशेषः, ' अभिक्रमणमभिक्रान्तं, भावे निष्ठाप्रत्ययः, प्रज्ञापकं प्रत्यभिमुखं क्रमणमित्यर्थः, एवं - प्रतिक्रमणं प्रतिक्रान्तं-प्रज्ञापकात्प्रतीपं क्रमणमिति भावः, संकुचनं संकचितं गात्रसंकोचकरणं, प्रसारणं प्रसारितं-गात्रविततकरणं, रवणं रुतं-शब्दकरणं, भ्रमणं | भ्रान्तम्-इतश्चेतश्च गमनं, त्रसनं त्रस्तं-दुःखादुद्वेजनं, पलायनं पलायितं-कुतश्चिन्नाशनं, तथाऽऽगतेः-कुतश्चित्क्वचित्, गतेश्च-कुतश्चित्क्वचिदेव, 'विण्णाया' विज्ञातारः / आहअभिक्रान्तप्रतिक्रान्ताभ्यां नागतिगत्योः कश्चिद्भेद इति किमर्थं भेदेनाभिधानम् ?, उच्यते, विज्ञानविशेषख्यापनार्थम्, एतदुक्तं भवति- य एव विजानन्ति यथा वयमभिक्रमामः *प्रतिक्रमामो वा त एव त्रसाः, न तु वृति प्रत्यभिक्रमणवन्तोऽपि वल्ल्यादय इति / आह एवमपि द्वीन्द्रियादीनामत्रसत्वप्रसङ्गः, अभिक्रमणप्रतिक्रमणभावेऽप्येवंविज्ञानाभावात्, " र नैतदेवं, हेतुसंज्ञाया अवगतेः, बुद्धिपूर्वकमिव छायात उष्णमुष्णाद्वा छायां प्रति 45 R rFFF * * * र
Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326