Book Title: Bhadrabahu Chanakya Chandragupt Kathanak evam Raja Kalki Varnan
Author(s): Rajaram Jain
Publisher: Ganeshprasad Varni Digambar Jain Sansthan
View full book text ________________
परिशिष्ट :३ उपवासफलवर्णनं अर्थात् भद्र बाहु-चाणक्य-चन्द्रगुप्त-कथा
अवार्यखण्डे पुण्ड्रवर्धन देशे कोटिकनगरे राजा पमधरो राज्ञी पद्मश्री: पुरोहितः सोमशर्मा ब्राह्मणी सोमश्रीः। तस्याः पुत्रोऽभूत्तदुत्पत्तिलग्नं विशोध्य सोमशर्मा वसती ध्वजमुद्भावितवान् मत्पुत्रो जिनदर्शनमान्यो भविष्यतीति । ततस्तं भद्रबाहुनाम्ना वर्धयितुं लग्नः, सप्तवर्षानन्तरं मौजीबन्धनं कृत्वा वेदमध्यापयितुं च । एकदा भद्रबाहुर्बटुकैः सह नगराबहिर्बटुक्रीडाथं ययौ। तत्र वट्टस्योपरि वट्टधारणे केनचित् द्वौ, केनचित् त्रय उपर्युपरि धृताः। भद्रबाहुना प्रयोदश धृताः। तदवसरे जग्बूस्वामिमोक्षगतेरनन्तरं विष्णु-नन्दिमित्र-अपराजित. गोवर्धन-मद्रबाहुनामानः पञ्च श्रुतकेवलिनो भविष्यन्तोति जिनागमसूत्रं चतुर्थः केवली गोवर्धननामानेकसहस्रयतिभिर्विहरंस्तत्रागत्य तं लुलोके । सोऽष्टाङ्गनिमित्तं वेत्ति । तं विलोक्यायं पश्चिमश्रुतकेवली भविष्यतीति बुबुधे । तत्समुदायालोकनात्सर्वे बटुकाः पलायिताः । स आगत्य गोवर्धनं ननाम । मुनिना पृष्टस्त्वं किमाख्यः, कस्य पुत्र इति । सोऽवदत् पुरोहितसोमशर्मणः पुत्रोऽहं भद्रबाहु. नामा। पुनर्मुनिनोक्तं मत्समोपेऽध्येष्यसे । तेन ओमिति भणिते तद्धस्तं धृत्वा स एव तत्पितुः गृहं ययौ । तं विलोक्य सोमशर्मासनादुत्थाय संमुखमागत्य मुकुलितकर आसनमदादपृच्छच्च-स्वामिन्, किमित्यागमनम् । मुनिबंभाण तव पुत्रोऽयं मत्समोपेऽध्येष्ये इत्युक्तवान् । त्वं भणसि चेदध्यापयिष्यामि । द्विजोऽब्रूतायं जैनदर्शनोपकारक एव स्यादित्युत्पन्नमुहूर्तगुणो विद्यते, सोऽन्यथा कि भवेदयं भवद्भ्यो दत्तो यज्जानन्ति तत्कुर्वन्त्विति तेन समर्पितः । तदा माता यतिपादयोलग्नाऽस्य दीक्षां मा प्रयच्छन्तु । मुनिरुवाचाध्याप्य तवान्तिकं प्रस्थापयामोति श्रद्धेहि भगिनि । ततस्तं नीत्वा मनिसावासादिना श्रावकैः समाधानं कारयित्वा सकलशास्त्राण्यध्यापितवान् । स च सकलदर्शनानां सारासारतां विबुध्य दीक्षां ययाचे । गुरुरवोचत् स्वं नगरं गत्वा तत्र पाण्डित्यं प्रकाश्य मातापितरावभ्युपगमय्यागच्छेति विससर्ज । स च गत्वा मातापितरौ प्रणम्य तदने गुरोर्गुणप्रशंसां चकार । द्वितीयदिने पद्मधरराजस्य भवनद्वारे पत्रमवलम्ब्य द्विजादिवादिनः सर्वान् जिगाय, तत्र जैनमतं प्रकाश्य मातापितरावभ्युपगमय्य गत्वा दीक्षितः । श्रुतकेवलीभूतमाचार्य कृत्वा गोवर्धनः संन्यासेन दिवं गतः । भद्रबाहुस्वामी स्वामिभक्तः तपस्वियुक्तो विहरन् स्थितः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164