Book Title: Bhadrabahu Chanakya Chandragupt Kathanak evam Raja Kalki Varnan
Author(s): Rajaram Jain
Publisher: Ganeshprasad Varni Digambar Jain Sansthan
View full book text ________________
चाणक्यमुनिकथानकम्
यदीच्छति नरः कोऽपि राज्यं निहतकण्टकम् । ततो मदन्तिके शोघ्रं तिष्ठतु प्रीतमानसः ॥५९॥ चाणाक्यवचनं श्रुत्वा नरः कोऽपि जगाविदम् । अहमिच्छामि भो राज्यं दीयतां मे द्रुतं प्रभो ॥६०॥ निजहस्तेन तं हस्ते समादाय त्वरान्वितः । चाणक्यो रोषसंपूर्णो निजगाम पुरादरम् ॥६१॥ वातवेगं समारुह्य तुरङ्गं प्रीतमानसः । अवाहय तकं शीघ्रं चाणाक्यो निजलीलया ॥६२॥ जलदुर्ग प्रविश्यासो वाधिमध्ये सुधीरधीः । राज्यमन्वेषयंस्तस्थौ चाणाक्यः कृतनिश्चयः ॥६३॥ एवं हि तिष्ठतस्तस्य नरेणकेन वेगतः । प्रत्यन्तवासिभूपस्य निवेदितमिदं वचः ॥६४॥ जलदुर्गे महानेकः समुद्रजलसंभवे । तिष्ठति प्रोतचेतस्को नरनागः सुबुद्धिमान् ॥६५॥ प्रत्यन्तवासिभूपोऽपि निशम्यास्य वचः परम् । निनाय तं निजस्थानं चाणक्यं मतिशालिनम् ॥६६॥ पर्वतान्तं परिप्राप्य भूपाः प्रत्यन्तवासिनः। भक्तं प्रवेशयामासुर्धनं च सकलं तदा ॥६७॥ ततोऽमी नन्दभूपालं भूपैः प्रत्यन्तवासिमिः । उपायैर्भेदमानोतास्तस्थुस्तद्वेषमागताः ॥६८॥ प्रत्यन्तशत्रुभूपालैनन्दो दण्डं प्रयाचितः । अयं वक्ति न तं नूनं ददामि भवतां करम् ॥६९॥ ततोऽभिनन्दभृत्यानां मन्त्रभेदं विधाय च । निर्घाटनं छले नैषां भ्रान्तिसंभ्रान्तिचेतसाम् ॥७०॥ स्वेन नन्दं निहत्याशु सुपुरे कुसुमनामनि । चकार विपुलं राज्यं चाणाक्यो निजबुद्धितः ॥७१॥ कृत्वा राज्यं चिरं कालं अभिषिच्यात्र तं नरम् । श्रुत्वा जिनोचितं धर्म हित्वा सर्व परिग्रहम् ॥७२॥ मतिप्रधानसाध्वन्ते महावैराग्यसंयुतः । दीक्षां जग्राह चाणाक्यो जिनेश्वरनिवेदिताम् ॥७३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164