Book Title: Bhadrabahu Chanakya Chandragupt Kathanak evam Raja Kalki Varnan
Author(s): Rajaram Jain
Publisher: Ganeshprasad Varni Digambar Jain Sansthan

View full book text
Previous | Next

Page 122
________________ ७२ भद्रबाहु - चाणक्य-चन्द्रगुप्त कथानक तत्रान्या कथा । तथाहि - पाटलिपुत्र नगरे राजा नन्दो बन्धुख्य- सुबन्धुकाविशकटालायचतुभिमन्त्रिभिः राज्यं कुर्वन् तस्थौ । एकदा नन्दस्योपरि प्रत्यन्तवासिनः संभूयागत्य देशसीम्नि तस्थुः । शकटालेन नृपो विज्ञप्तः - प्रत्यन्तवासिनः ः समागताः, किं क्रियते । नन्दोऽब्रूत त्वमेवात्र दक्षस्त्वद्भणितं करोमि । शकटालोऽवोचच्छत्रवो बहवो दानेनोपशान्ति नेयाः, युद्धस्यानवसर इति । राज्ञोक्तं त्वत्कृतमेव प्रमाणम् द्रव्यं प्रयच्छ । ततः शकटालो द्रव्यं दत्त्वा तान् व्याघोटितवान् । अन्यदा राजा भाण्डागारं द्रष्टुमियाय । द्रव्यमपश्यन् क्व गतं द्रव्यमित्यपृच्छत् । भाण्डागा रिकोऽब्रूत शकटाको रिभ्योऽदत्त | ततः कुपितेन राज्ञा सकुटुम्बः शकटाको भूमिगृहे निक्षिप्तः । सरावप्रवेशमात्रद्वारेण स्तोकमोदनं जलं प्रतिदिनं दापयति नरेशः । तमोदनं जलं च दृष्ट्वा शकटालोऽब्रूत कुटुम्बमध्ये यो नन्दवंशं निवंशं कर्तुं शक्नोति स इममोदनं जलं च गृह्णीयादिति । सर्वैस्त्वमेव शक्तो गृहाणेति सर्वसंमते स एव भुङ्क्ते पानीयं च पिबति । स एव स्थितोऽन्ये मृताः । इतः पुनः प्रत्यन्तवासिनां बाधायां नन्दः शकटालं सस्मार उक्तवांश्च शकटालवंशे कोऽपि विद्यत इति । कश्चिदाहान्नं जलं च कोऽपि गृह्णाति । ततस्तमाकृष्य परिघानं दत्त्वा उक्तवानरीनुपशान्ति नयेति । स केनाप्युपायेनोपशान्ति निनाय । राज्ञा मन्त्रिपदं गृहाणेत्युक्ते शकटालस्तदुल्लङ्घ्य सत्कारगृहाध्यक्षतां जग्राह । एकदा पुरबाह्येऽटन् दर्भसूचीं खनन्तं चाणक्यद्विजं लुलोके । तदनु तमभिवन्द्योक्तवान् किं करोषि । चाणक्योऽब्रूत विद्धोऽहमनया, ततो निर्मूलमुन्मूल्य शोषयित्वा दग्ध्वा प्रवाहयिष्यामि । शकटालोऽमन्यत अयं नन्दनाशे समर्थ इति तं प्रार्थयति स्म त्वयाग्रासने प्रतिदिनं भोक्तव्यमिति । तेनाभ्युपगतम् । ततः शकटालो महादरेण तं भोजयति । एकदाऽध्यक्षस्तस्य स्थानचलनं चकार । चाणक्योऽवदत् स्थान चलनं किमिति विहितम् । अध्यक्ष उवाच राज्ञो नियमोऽयमग्रासनमन्यस्मै दातव्यमिति । ततो मध्यमासनेऽपि भोक्तुं लग्नः ततोऽभ्यन्ते उपवेशितः । स तत्रापि भुङ्क्ते, कोपं न करोति । अन्यदा भोदतुं प्रविशन् चाणक्योsध्यक्षेण निवारितो राज्ञा तव भोजनं निषिद्धमहं किं करोमि । ततश्चाणक्यः कुपितः पुरान्निःसरन्नवदद्यो नन्दराज्यार्थी स मत्पृष्ठं लगतु । ततचन्द्रगुप्ताख्यः क्षत्रियोऽतिनिस्वः किं नष्टमिति लग्नः । स प्रत्यन्तवासिनां मिलित्वोपायेन नन्दं निर्मूलयित्वा चन्द्रगुप्तं राजानं चकार । स राज्यं विधाय स्वापत्यबिन्दुसाराय स्वपदं दत्त्वा चाणक्येन दीक्षितः । चाणक्य मट्टारकस्य इत ऊर्ध्वं भिन्ना कथाराधनायां ज्ञातव्या । बिन्दुसारोऽपि स्वतनयाशोकाय स्वपदं वितीर्य दीक्षितः । अशोकस्यापत्यं कुनालोऽजनि । स बालः पठन् यदा तस्थौ तदाशोकः प्रत्यन्तवासिनां उपरि जगाम । पुरे व्यवस्थितप्रधानान्तिकं राजादेशं प्रास्थापयत् । कथम् । उपाध्यायाय शालिकूरं च मसिं च दत्त्वा कुमारमध्या Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164