________________
७२
भद्रबाहु - चाणक्य-चन्द्रगुप्त कथानक
तत्रान्या कथा । तथाहि - पाटलिपुत्र नगरे राजा नन्दो बन्धुख्य- सुबन्धुकाविशकटालायचतुभिमन्त्रिभिः राज्यं कुर्वन् तस्थौ । एकदा नन्दस्योपरि प्रत्यन्तवासिनः संभूयागत्य देशसीम्नि तस्थुः । शकटालेन नृपो विज्ञप्तः - प्रत्यन्तवासिनः ः समागताः, किं क्रियते । नन्दोऽब्रूत त्वमेवात्र दक्षस्त्वद्भणितं करोमि । शकटालोऽवोचच्छत्रवो बहवो दानेनोपशान्ति नेयाः, युद्धस्यानवसर इति । राज्ञोक्तं त्वत्कृतमेव प्रमाणम् द्रव्यं प्रयच्छ । ततः शकटालो द्रव्यं दत्त्वा तान् व्याघोटितवान् । अन्यदा राजा भाण्डागारं द्रष्टुमियाय । द्रव्यमपश्यन् क्व गतं द्रव्यमित्यपृच्छत् । भाण्डागा रिकोऽब्रूत शकटाको रिभ्योऽदत्त | ततः कुपितेन राज्ञा सकुटुम्बः शकटाको भूमिगृहे निक्षिप्तः । सरावप्रवेशमात्रद्वारेण स्तोकमोदनं जलं प्रतिदिनं दापयति नरेशः । तमोदनं जलं च दृष्ट्वा शकटालोऽब्रूत कुटुम्बमध्ये यो नन्दवंशं निवंशं कर्तुं शक्नोति स इममोदनं जलं च गृह्णीयादिति । सर्वैस्त्वमेव शक्तो गृहाणेति सर्वसंमते स एव भुङ्क्ते पानीयं च पिबति । स एव स्थितोऽन्ये मृताः ।
इतः पुनः प्रत्यन्तवासिनां बाधायां नन्दः शकटालं सस्मार उक्तवांश्च शकटालवंशे कोऽपि विद्यत इति । कश्चिदाहान्नं जलं च कोऽपि गृह्णाति । ततस्तमाकृष्य परिघानं दत्त्वा उक्तवानरीनुपशान्ति नयेति । स केनाप्युपायेनोपशान्ति निनाय । राज्ञा मन्त्रिपदं गृहाणेत्युक्ते शकटालस्तदुल्लङ्घ्य सत्कारगृहाध्यक्षतां जग्राह । एकदा पुरबाह्येऽटन् दर्भसूचीं खनन्तं चाणक्यद्विजं लुलोके । तदनु तमभिवन्द्योक्तवान् किं करोषि । चाणक्योऽब्रूत विद्धोऽहमनया, ततो निर्मूलमुन्मूल्य शोषयित्वा दग्ध्वा प्रवाहयिष्यामि । शकटालोऽमन्यत अयं नन्दनाशे समर्थ इति तं प्रार्थयति स्म त्वयाग्रासने प्रतिदिनं भोक्तव्यमिति । तेनाभ्युपगतम् । ततः शकटालो महादरेण तं भोजयति । एकदाऽध्यक्षस्तस्य स्थानचलनं चकार । चाणक्योऽवदत् स्थान चलनं किमिति विहितम् । अध्यक्ष उवाच राज्ञो नियमोऽयमग्रासनमन्यस्मै दातव्यमिति । ततो मध्यमासनेऽपि भोक्तुं लग्नः ततोऽभ्यन्ते उपवेशितः । स तत्रापि भुङ्क्ते, कोपं न करोति । अन्यदा भोदतुं प्रविशन् चाणक्योsध्यक्षेण निवारितो राज्ञा तव भोजनं निषिद्धमहं किं करोमि । ततश्चाणक्यः कुपितः पुरान्निःसरन्नवदद्यो नन्दराज्यार्थी स मत्पृष्ठं लगतु । ततचन्द्रगुप्ताख्यः क्षत्रियोऽतिनिस्वः किं नष्टमिति लग्नः । स प्रत्यन्तवासिनां मिलित्वोपायेन नन्दं निर्मूलयित्वा चन्द्रगुप्तं राजानं चकार । स राज्यं विधाय स्वापत्यबिन्दुसाराय स्वपदं दत्त्वा चाणक्येन दीक्षितः । चाणक्य मट्टारकस्य इत ऊर्ध्वं भिन्ना कथाराधनायां ज्ञातव्या । बिन्दुसारोऽपि स्वतनयाशोकाय स्वपदं वितीर्य दीक्षितः । अशोकस्यापत्यं कुनालोऽजनि । स बालः पठन् यदा तस्थौ तदाशोकः प्रत्यन्तवासिनां उपरि जगाम । पुरे व्यवस्थितप्रधानान्तिकं राजादेशं प्रास्थापयत् । कथम् । उपाध्यायाय शालिकूरं च मसिं च दत्त्वा कुमारमध्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org