SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ उपवासफलवर्णनं अर्थात् भद्रबाहु-चाणक्य-चन्द्रगुप्त कथा ७३ पयतामिति । स च वाचकेनान्यथा वाचितः। ततः उपाध्यायं शालिकूरं मसिं च भोजयित्वा कुमारस्य लोचने उत्पाटिते । अरीन् जित्वा आगतो नृपः कुमारं वीक्ष्यातिशोकं चकार । दिनान्तरैस्तं चन्द्राननाख्यया कन्यया परिणायितवान् । तदपत्यं संप्रति-चन्द्रगुप्तोऽभूत् । तं राज्ये निधायाशोको दीक्षितः। संप्रतिचन्द्रगुप्तो राज्यं कुर्वन् तस्थौ। एकदा तदुद्यानं कश्चिदवधिबोधमुनिरागतो वनपालात्तदागति ज्ञात्वा संप्रतिचन्द्रगुप्तो वन्दितुं ययौ । वन्दित्वोपविश्य धर्मश्रु तेरनन्तरं स्वातीतभवान् पृष्टवान् । मुनिः कथयति ।.."तं निशम्य संप्रति-चन्द्रगुप्तो जहर्ष । तं नत्वा पुरं विवेश सुखेन तस्थौ। ___ एकस्या रात्रः पश्चिमयामे षोडश स्वप्नान् ददर्श । कथम् । रवेरस्तमनम् १, कल्पद्रुमशाखाभङ्गम् २, आगच्छतो विमानस्य व्याघुटनम् ३, 'द्वादशशीष सर्पम् ४, चन्द्रमण्डलभेदम् ५, कृष्णगजयुद्धम् ६, खद्योतम् ७, शुष्कमध्यप्रदेशतमगम् ८, धूमं ९, सिंहासनस्योपरि मर्कटम् १०, स्वर्णभाजने क्षरीयीं भुजानं श्वानम् ११, गजस्योपरि मर्कटम् १२, कचारमध्ये कमलम् १३, मर्यादोल्लंधितमुदषिम् १४, तरुणवृषभैर्युक्तं रथम् १५, तरुणवृषभारूढान् क्षत्रियांश्च १६, ततोऽपरदिनेऽनेकदेशान् परिभ्रमन् संघेन सह मद्रबाहुः स्वामी आगत्य तत्पुरं चर्यार्थ प्रविष्टः श्रावकगृहे सर्वर्षीन् दत्त्वा स्वयमेकस्मिन् गृहे तस्थौ । तत्रात्यव्यक्तो बालोऽवदत् 'वोलह वोलह' इति । आचार्योऽपृच्छत् केती वरिस इति । बालो 'बारा वरिस' इत्यब्रूत । ततो अलाभेन सूरिरुद्यानं ययो । संप्रति-चन्द्रगुप्तस्तदागमनं विज्ञाय सपरिजनो वन्दितुं ययौ । वन्दित्वा स्वप्नफलमप्राक्षीत् । मुनिरब्रवीत् अग्ने दुःखमकालवर्तनं त्वया स्वप्ने दृष्टम् । तथाहि दिनपत्यस्तमनं सफलवस्तुप्रकाशकपरमागमस्यास्तमनं सूचयति १ । सुरद्रुमशाखाभङ्गोऽद्यास्तमन (?) प्रभृतिक्षत्रियाणां राज्यं विहाय तपोऽभावं बोधयति २। आगच्छतो विमानस्य व्याघुटनम् अद्यप्रभृत्यत्र सुरचारणादोनाम् आगमनाभावं ब्रूते ३ । द्वादशशीर्षः सर्पो द्वादशवर्षाणि दुर्भिक्षं वदति ४ । चन्द्रमण्डलभेदो जैनदर्शने संवादिभेदं निरूपयति । ५ । कृष्णगजयुद्धमितोऽत्राभिलषितवृष्टेरभावं गमयति ६ । खद्योतः परमागमस्योपदेशमात्रावस्थानं निगदति ७ । मध्यम-प्रदेशशुष्कतडागमार्यखण्डमध्यदेशे धर्मविनाशमाचष्टे ८। धूमो दुर्जनादीनामाधिक्यं भणति ९ । सिंहासनस्थो मर्कटोऽकुलीनस्य राज्यं प्रकाशयति १० । सुवर्णभाजने पायसं भुञ्जानः श्वा राजसभायां कुलिङ्गपूज्यतां द्योतयति ११ । गजस्योपरि स्थितो मर्कटो राजपुत्राणामकुलीनसेवां बोधयति १२। कचारस्थं कमलं रागादियुक्त तपोविधानं मनयति १३ । मर्यादाच्युतउदधिः षष्ठांशातिक्रमेण राज्ञां सिद्धादायग्रहणमाविर्भावयति १४ । तरुणवृषभयुक्तो रथो बालानां तपोविधानं वृद्धत्वे तपोऽतिवारं निश्चाययति १५ । तरुणवृषभारूढाः १० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004003
Book TitleBhadrabahu Chanakya Chandragupt Kathanak evam Raja Kalki Varnan
Original Sutra AuthorN/A
AuthorRajaram Jain
PublisherGaneshprasad Varni Digambar Jain Sansthan
Publication Year1982
Total Pages164
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy