Book Title: Bhadrabahu Chanakya Chandragupt Kathanak evam Raja Kalki Varnan
Author(s): Rajaram Jain
Publisher: Ganeshprasad Varni Digambar Jain Sansthan
View full book text ________________
भद्रबाहु-चाणक्य-चन्द्रगुप्त कथानक क्षत्रियाः क्षत्रियाणां कुधर्मरति प्रत्याययन्ति १६ । इति श्रुत्वा संप्रति-चन्द्रगुप्तः स्वपुत्रसिंहसेनाय राज्यं दत्त्वा निःक्रान्तः । ___ मद्रबाहुस्वामी तत्र गत्वा बालवृद्धयतीनाह्वाययति स्म, बभाषे च तान् प्रति-अहो यो यतिरत्र स्थास्यति तस्य भङ्गो भविष्यति इति निमित्तं वदति, तस्मात्सर्वैर्दक्षिणमागन्तव्यमिति । रामिल्लाचार्यः स्थूलभद्राचार्यः स्थूलाचार्यस्त्रयोऽप्यतिसमर्थश्रावकवचनेन स्वसंघेन समं तस्थुः। श्रीमद्रबाहुादशसहस्रयतिभिर्दक्षिणं चचाल, महाटव्यां स्वाध्यायं ग्रहीतुं निशिहियापूर्वकं कांचिद् गुहां विवेश । तत्रात्रैव निषोत्याकाशगचं शुश्राव । ततो निजमल्पायुविबुध्य स्वशिष्यमेकादशाङ्गधारिणं विशाखाचार्य संघाधारं कृत्वा तेन संघं विससर्ज । संप्रति चन्द्रगुप्तः प्रस्थाप्यमानोऽपि द्वादश वर्षाणि गुरुपादावाराधनीयावित्यागपश्रुतेर्न गतोऽन्ये गताः । स्वामी संन्यासं जग्राहाराधनामाराधयन् तस्थौ । संप्रतिचन्द्रगुप्तो मुनिरुपवासं कुर्वन् तत्र तस्थौ । तदा स्वामिना भणितो हे मुनेऽस्मद्दर्शने कान्तारचर्यामार्गोऽस्ति । ततस्त्वं कतिपयपादपान्तिकं चर्यार्थं याहि । गुरुवचनमनुल्लङ्घनीयमन्यत्रायुक्तादिति वचनाज्जगाम । तदा तच्चित्तपरोक्षणार्थ यक्षी स्वयमदृशीभूत्वा सुवर्णवलयालंकृतहस्तगृहीतचटुकेन सूपसपिरादिमित्रं शाल्योदनं दर्शयति स्म । मुनिरस्य ग्रहणमयुक्त मित्यलाभे गतः । गुरोरन्ते प्रत्याख्यानं गृहीत्वा स्वरूपं निरूपितवान् । गुरुस्तत्पुण्यमाहात्म्यं विबुध्य भद्रं कृतम् इत्युवाच । अपरस्मिन् दिनेऽन्यत्र ययौ। तत्र रसवतीभाण्डानि हेममयं भाजनमुदककलशादिकं ददर्श । अलाभेनागतो गुरोः स्वरूपं निरूपितवान् । स च भद्रं भद्रमिति बमाण । अन्यस्मिन् दिनेऽन्यत्र ययौ। तत्रकैव स्त्री स्थापयति स्म । तदा त्वमेकाहमेक इति जनापवादभयेन स्थातुमनुचितमिति भणित्वालाभे निजंगाम । अन्येधुरन्यत्राट । तत्र तत्कृतं नगरमपश्यत् । तत्रैकस्मिन् गृहे चर्यां कृत्वागतो गुरोः स्वरूपं कथितवान् । स बभाण समोचीनं कृतम् । एवं स यथाभिलाषं तत्र चर्या कृत्वागत्य स्वामिनः शुश्रूषां कुर्वन् वसति स्म । स्वामी कतिपयदिनैदिवं गतः । तच्छरीरमुच्चैः प्रदेशे शिलायाम् उपरि निधाय तत्पादौ गुहाभित्तौ विलिख्याराघयन् वसति स्म । विशाखाचार्यादयश्चोलदेशे सुखेन तस्थुः । इतः पाटलीपुत्रे ये स्थिता रामिल्लादयस्तत्र महादमिक्षं जातम्, तथापि श्रावका ऋषिभ्योऽतिविशिष्टमन्नं ददति । एकदा चर्या कृत्वागमनावसरे रङ्कः कस्यचिदृषेरुदरं विपाट्योदनो भक्षितः । ऋषेरुपद्रवं वीक्ष्य श्रावकैराचार्या भणिता ऋषयो रात्री पात्राणि गृहीत्वा गृहमागच्छन्तु, तान्यशनेन भृत्वा वयं प्रयच्छामो वसतो निधाय योग्यकाले द्वारं दत्त्वा गवाक्षप्रकाशेन परस्परं हस्तनिक्षेपणं कृत्वा चर्यां कुर्वन्त्विति, तदभ्युपगम्य तथा प्रवर्तमाने सत्येकस्यां रात्री दीर्घकायं वेतालाकृति पिच्छकमण्डलुपाणि कुक्कुरादिभयेन गृहीतदण्डं यतिं विलोक्य कस्याश्चिद् गर्भिण्याः भयेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164