Book Title: Bhadrabahu Chanakya Chandragupt Kathanak evam Raja Kalki Varnan
Author(s): Rajaram Jain
Publisher: Ganeshprasad Varni Digambar Jain Sansthan

View full book text
Previous | Next

Page 125
________________ उपवासफलवर्णनं अर्थात् भद्रबाहु-चाणक्य-चन्द्रगुप्त कथा ७५ गर्भपातोऽभूत् । तमनथं विलोक्योपासकैर्भणितं श्वेतं कम्बलं घटिकास्वरूपं लिङ्गं कटिप्रदेशं च झम्पितं यथा भवति तथा स्कन्धे निक्षिप्य गृहं गच्छन्त्वन्यथानर्थ इति । तदप्यभ्युपगतम् । तथा प्रवर्तमाना अर्धकर्पटितीर्थाभिधा जाताः। एवं ते सुखेन तथैव तस्थुः। ___ इतो द्वादशवर्षान्तरं दुर्भिक्षं गतमिदानों विहरिष्याम इति विशाखाचार्याः पुनरुत्तरापथमागच्छन् गुरुनिषद्यावन्दनाथं तां गुहामवापुः । तावत्तत्रातिष्ठद्यो गुरुपादावाराधयन् संप्रति-चन्द्र गुप्तो मुनिद्वितीयलोचाभावे प्रलम्बमानजटाभारः संघस्य संमुखमाट ववन्दे संघम् । अत्रायं कन्दाद्याहारेण स्थित इति न केनापि प्रतिवन्दितः। संघो गुरोनिषद्याक्रियां चक्रे उपवासं च । द्वितीयाह्ने पारणानिमित्तं कमपि ग्रामं गच्छन्नाचार्यः संप्रति-चन्द्रगुप्तेन निवारितः स्वामिन्, पारणां कृत्वा गन्तव्यमिति । समीपे ग्रामादेरभावात् क्व पारणा भविष्यतीति गणो बभाण । सा चिन्ता न कर्तव्येति संप्रति-चन्द्रगुप्त उवाच । ततो मध्याह्न कौतुकेन संघस्तत्प्रदर्शितमार्गेण चर्यार्थ चचाल । पुरो नगरं लुलोके, विवेश, बहुभिः श्रावकैर्महोत्साहेन स्थापिता ऋषयः । सर्वेऽपि नैरन्तर्यानन्तरं गुहामाययुः । कश्चिद् ब्रह्मचारी तत्र कमण्डलुं विसस्मार । तामानेतुं डुढोके । तन्नगरं न लुलोक इति विस्मयं जगाम, गवेषयन् झाडे तामपश्यत् । गृहीत्वागत्याचार्यस्य स्वरूपमकथयत् । ततः सूरिः संप्रति-चन्द्रगुप्तस्य पुण्येन तत्तदैव भवतीत्यवगम्य तं प्रशंसयामास । तस्य लोचं कृत्वा प्रायश्चित्तमदत्त, स्वयमप्यसंयतदत्तमाहारं भुक्तवानोति संघेन प्रायश्चित्तं जग्राह । इतो दुभिक्षापसारे रामिल्लाचार्यस्थूलमद्राचार्यावालोचयामासतुः । स्थूलाचार्यो-ऽतिवृद्धः स्वयमालोचितवांस्तत्संघस्य कम्बलादिकं त्यक्तं न प्रतिभासत इति नालोचयति । पुनः पुनर्भणन्नाचार्यो रात्रावेकान्ते हतः । स्थूलाचार्यों दिवं गतः इति सर्वैः संभूय संस्कारितः । तदृषयस्तथैव तस्थुः। तत्रागता विशाखाचार्यादयः प्रतिवन्दना न कुर्वन्तीति तदा तैः केवली भुङ्क्ते, स्त्रीनिर्वागमस्तीत्यादि विभिन्न मतं कृतम् । तैः पाठिता कस्यचिद्राज्ञः पुत्री स्वामिनी । सा सुराष्ट्रा [ष्ट्र] देशे वलभीपुरेशवप्रपादाय दत्ता। सा तस्यातिवल्लभा जाता। तया स्वगुरवस्तबानायिताः। तेषामागमने राज्ञा सममर्धपथं ययो। राजा तान् विलोक्योक्तवान्देवि, त्वदीया गुरवः कीदृशा'न परिपूर्ण परहिता नापि नग्नाः इति । उभयप्रकारयोमध्ये कमपि प्रकार स्वोकुर्वन्तु चेत्पुरं प्रविशन्तु, नोचेद्यान्त्वित्युक्ते तैः श्वेतः साटको वेष्टितस्ततः स्वामिनीसंज्ञया श्वेतपटा बभूवुः । स्वामिन्याः पुत्री जक्खलदेवी श्वेतपटैः पाठिता। सा करहाटपुरेशभूपालस्यातिप्रिया जज्ञे । सापि स्वगुरुन् स्वनिकटमानयामास । तषामागतो तया राजा विज्ञप्तो मदोया गुरवः समागताः त्वयार्धपथं निर्गन्तव्यमिति । तदुपरोधेन निर्गतो वटतले स्थितान् दण्डकम्बल Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164