________________
उपवासफलवर्णनं अर्थात् भद्रबाहु-चाणक्य-चन्द्रगुप्त कथा ७५ गर्भपातोऽभूत् । तमनथं विलोक्योपासकैर्भणितं श्वेतं कम्बलं घटिकास्वरूपं लिङ्गं कटिप्रदेशं च झम्पितं यथा भवति तथा स्कन्धे निक्षिप्य गृहं गच्छन्त्वन्यथानर्थ इति । तदप्यभ्युपगतम् । तथा प्रवर्तमाना अर्धकर्पटितीर्थाभिधा जाताः। एवं ते सुखेन तथैव तस्थुः। ___ इतो द्वादशवर्षान्तरं दुर्भिक्षं गतमिदानों विहरिष्याम इति विशाखाचार्याः पुनरुत्तरापथमागच्छन् गुरुनिषद्यावन्दनाथं तां गुहामवापुः । तावत्तत्रातिष्ठद्यो गुरुपादावाराधयन् संप्रति-चन्द्र गुप्तो मुनिद्वितीयलोचाभावे प्रलम्बमानजटाभारः संघस्य संमुखमाट ववन्दे संघम् । अत्रायं कन्दाद्याहारेण स्थित इति न केनापि प्रतिवन्दितः। संघो गुरोनिषद्याक्रियां चक्रे उपवासं च । द्वितीयाह्ने पारणानिमित्तं कमपि ग्रामं गच्छन्नाचार्यः संप्रति-चन्द्रगुप्तेन निवारितः स्वामिन्, पारणां कृत्वा गन्तव्यमिति । समीपे ग्रामादेरभावात् क्व पारणा भविष्यतीति गणो बभाण । सा चिन्ता न कर्तव्येति संप्रति-चन्द्रगुप्त उवाच । ततो मध्याह्न कौतुकेन संघस्तत्प्रदर्शितमार्गेण चर्यार्थ चचाल । पुरो नगरं लुलोके, विवेश, बहुभिः श्रावकैर्महोत्साहेन स्थापिता ऋषयः । सर्वेऽपि नैरन्तर्यानन्तरं गुहामाययुः । कश्चिद् ब्रह्मचारी तत्र कमण्डलुं विसस्मार । तामानेतुं डुढोके । तन्नगरं न लुलोक इति विस्मयं जगाम, गवेषयन् झाडे तामपश्यत् । गृहीत्वागत्याचार्यस्य स्वरूपमकथयत् । ततः सूरिः संप्रति-चन्द्रगुप्तस्य पुण्येन तत्तदैव भवतीत्यवगम्य तं प्रशंसयामास । तस्य लोचं कृत्वा प्रायश्चित्तमदत्त, स्वयमप्यसंयतदत्तमाहारं भुक्तवानोति संघेन प्रायश्चित्तं जग्राह ।
इतो दुभिक्षापसारे रामिल्लाचार्यस्थूलमद्राचार्यावालोचयामासतुः । स्थूलाचार्यो-ऽतिवृद्धः स्वयमालोचितवांस्तत्संघस्य कम्बलादिकं त्यक्तं न प्रतिभासत इति नालोचयति । पुनः पुनर्भणन्नाचार्यो रात्रावेकान्ते हतः । स्थूलाचार्यों दिवं गतः इति सर्वैः संभूय संस्कारितः । तदृषयस्तथैव तस्थुः। तत्रागता विशाखाचार्यादयः प्रतिवन्दना न कुर्वन्तीति तदा तैः केवली भुङ्क्ते, स्त्रीनिर्वागमस्तीत्यादि विभिन्न मतं कृतम् । तैः पाठिता कस्यचिद्राज्ञः पुत्री स्वामिनी । सा सुराष्ट्रा [ष्ट्र] देशे वलभीपुरेशवप्रपादाय दत्ता। सा तस्यातिवल्लभा जाता। तया स्वगुरवस्तबानायिताः। तेषामागमने राज्ञा सममर्धपथं ययो। राजा तान् विलोक्योक्तवान्देवि, त्वदीया गुरवः कीदृशा'न परिपूर्ण परहिता नापि नग्नाः इति । उभयप्रकारयोमध्ये कमपि प्रकार स्वोकुर्वन्तु चेत्पुरं प्रविशन्तु, नोचेद्यान्त्वित्युक्ते तैः श्वेतः साटको वेष्टितस्ततः स्वामिनीसंज्ञया श्वेतपटा बभूवुः । स्वामिन्याः पुत्री जक्खलदेवी श्वेतपटैः पाठिता। सा करहाटपुरेशभूपालस्यातिप्रिया जज्ञे । सापि स्वगुरुन् स्वनिकटमानयामास । तषामागतो तया राजा विज्ञप्तो मदोया गुरवः समागताः त्वयार्धपथं निर्गन्तव्यमिति । तदुपरोधेन निर्गतो वटतले स्थितान् दण्डकम्बल
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org