Book Title: Bhadrabahu Chanakya Chandragupt Kathanak evam Raja Kalki Varnan
Author(s): Rajaram Jain
Publisher: Ganeshprasad Varni Digambar Jain Sansthan
View full book text ________________
७.
भद्रबाहु-चाणक्य-चन्द्रगुप्त कथानक
विहरन् गतियोगेन शिष्याणां पञ्चभिः शतैः । वनवासं परिप्राप्य दक्षिणापथसंभवम् ॥७४॥ ततः पश्चिमदिग्भागे महाक्रौन्चपुरस्य सः । चाणक्यो गोकुलस्थाने कायोत्सर्गेण तस्थिवान् ॥७५॥ बभूव तत्पुरे राजा सुमित्रो नाम विश्रुतः । तत्प्रिया रूपसंपन्ना विनयोपपदा मतिः ॥७६॥ मन्त्री सुबन्धुनामास्य नन्दस्य मरणेन सः । चाणक्योपरि संक्रुध्य तस्थौ तच्छिद्रवाञ्छया ॥७॥ ततः क्रौञ्चपुरेशस्य महासामन्तसेविनः । सुबन्धुबन्धुसंपन्नः समीपे तस्य तस्थिवान् ॥७॥ अथ क्रौञ्चपुराधीशः श्रुत्वा मुनिसमागमम् । महाविभूतिसंयुक्तस्तं यति वन्दितुं ययौ ॥७९॥ चाणक्यादिमुनीन् नत्वा स तत्पूजां विधाय च । महाविनयसंपन्नो विवेश निजपत्तनम् ॥८॥ ततोऽस्तमनवेलायां यतीनां शुद्धचेतसाम् । साग्नि करीषमाधाय तत्समीपेऽपि रोषतः ।।८१॥ विधाय स्वेन देहेन पापराशेरुपार्जनम् । महाक्रोधपरीताङ्गः सुबन्धुर्नरकं ययौ ॥८२॥ चाणक्याख्यो मुनिस्तत्र शिष्यपञ्चशतैः सह । पादोपगमनं कृत्वा शुक्लध्यानमुपेयिवान् ॥८३॥ उपसर्ग सहित्वेमं सुबन्धुविहितं तदा । समाधिमरणं प्राप्य चाणक्यः सिद्धिमोयिवान् ॥८४॥ ततः पश्चिमदिग्भागे दिव्यक्रौञ्चपुरस्य सा । निषद्यका मुनेरस्य वन्द्यतेऽद्यापि साधुभिः ॥८५॥
[ हरिषेणाचार्यकृत बृहत्कथाकोष (१०वीं सदी) से ]
कथानक सं० १४३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164