SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ७. भद्रबाहु-चाणक्य-चन्द्रगुप्त कथानक विहरन् गतियोगेन शिष्याणां पञ्चभिः शतैः । वनवासं परिप्राप्य दक्षिणापथसंभवम् ॥७४॥ ततः पश्चिमदिग्भागे महाक्रौन्चपुरस्य सः । चाणक्यो गोकुलस्थाने कायोत्सर्गेण तस्थिवान् ॥७५॥ बभूव तत्पुरे राजा सुमित्रो नाम विश्रुतः । तत्प्रिया रूपसंपन्ना विनयोपपदा मतिः ॥७६॥ मन्त्री सुबन्धुनामास्य नन्दस्य मरणेन सः । चाणक्योपरि संक्रुध्य तस्थौ तच्छिद्रवाञ्छया ॥७॥ ततः क्रौञ्चपुरेशस्य महासामन्तसेविनः । सुबन्धुबन्धुसंपन्नः समीपे तस्य तस्थिवान् ॥७॥ अथ क्रौञ्चपुराधीशः श्रुत्वा मुनिसमागमम् । महाविभूतिसंयुक्तस्तं यति वन्दितुं ययौ ॥७९॥ चाणक्यादिमुनीन् नत्वा स तत्पूजां विधाय च । महाविनयसंपन्नो विवेश निजपत्तनम् ॥८॥ ततोऽस्तमनवेलायां यतीनां शुद्धचेतसाम् । साग्नि करीषमाधाय तत्समीपेऽपि रोषतः ।।८१॥ विधाय स्वेन देहेन पापराशेरुपार्जनम् । महाक्रोधपरीताङ्गः सुबन्धुर्नरकं ययौ ॥८२॥ चाणक्याख्यो मुनिस्तत्र शिष्यपञ्चशतैः सह । पादोपगमनं कृत्वा शुक्लध्यानमुपेयिवान् ॥८३॥ उपसर्ग सहित्वेमं सुबन्धुविहितं तदा । समाधिमरणं प्राप्य चाणक्यः सिद्धिमोयिवान् ॥८४॥ ततः पश्चिमदिग्भागे दिव्यक्रौञ्चपुरस्य सा । निषद्यका मुनेरस्य वन्द्यतेऽद्यापि साधुभिः ॥८५॥ [ हरिषेणाचार्यकृत बृहत्कथाकोष (१०वीं सदी) से ] कथानक सं० १४३ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004003
Book TitleBhadrabahu Chanakya Chandragupt Kathanak evam Raja Kalki Varnan
Original Sutra AuthorN/A
AuthorRajaram Jain
PublisherGaneshprasad Varni Digambar Jain Sansthan
Publication Year1982
Total Pages164
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy