SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ चाणक्यमुनिकथानकम् यदीच्छति नरः कोऽपि राज्यं निहतकण्टकम् । ततो मदन्तिके शोघ्रं तिष्ठतु प्रीतमानसः ॥५९॥ चाणाक्यवचनं श्रुत्वा नरः कोऽपि जगाविदम् । अहमिच्छामि भो राज्यं दीयतां मे द्रुतं प्रभो ॥६०॥ निजहस्तेन तं हस्ते समादाय त्वरान्वितः । चाणक्यो रोषसंपूर्णो निजगाम पुरादरम् ॥६१॥ वातवेगं समारुह्य तुरङ्गं प्रीतमानसः । अवाहय तकं शीघ्रं चाणाक्यो निजलीलया ॥६२॥ जलदुर्ग प्रविश्यासो वाधिमध्ये सुधीरधीः । राज्यमन्वेषयंस्तस्थौ चाणाक्यः कृतनिश्चयः ॥६३॥ एवं हि तिष्ठतस्तस्य नरेणकेन वेगतः । प्रत्यन्तवासिभूपस्य निवेदितमिदं वचः ॥६४॥ जलदुर्गे महानेकः समुद्रजलसंभवे । तिष्ठति प्रोतचेतस्को नरनागः सुबुद्धिमान् ॥६५॥ प्रत्यन्तवासिभूपोऽपि निशम्यास्य वचः परम् । निनाय तं निजस्थानं चाणक्यं मतिशालिनम् ॥६६॥ पर्वतान्तं परिप्राप्य भूपाः प्रत्यन्तवासिनः। भक्तं प्रवेशयामासुर्धनं च सकलं तदा ॥६७॥ ततोऽमी नन्दभूपालं भूपैः प्रत्यन्तवासिमिः । उपायैर्भेदमानोतास्तस्थुस्तद्वेषमागताः ॥६८॥ प्रत्यन्तशत्रुभूपालैनन्दो दण्डं प्रयाचितः । अयं वक्ति न तं नूनं ददामि भवतां करम् ॥६९॥ ततोऽभिनन्दभृत्यानां मन्त्रभेदं विधाय च । निर्घाटनं छले नैषां भ्रान्तिसंभ्रान्तिचेतसाम् ॥७०॥ स्वेन नन्दं निहत्याशु सुपुरे कुसुमनामनि । चकार विपुलं राज्यं चाणाक्यो निजबुद्धितः ॥७१॥ कृत्वा राज्यं चिरं कालं अभिषिच्यात्र तं नरम् । श्रुत्वा जिनोचितं धर्म हित्वा सर्व परिग्रहम् ॥७२॥ मतिप्रधानसाध्वन्ते महावैराग्यसंयुतः । दीक्षां जग्राह चाणाक्यो जिनेश्वरनिवेदिताम् ॥७३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004003
Book TitleBhadrabahu Chanakya Chandragupt Kathanak evam Raja Kalki Varnan
Original Sutra AuthorN/A
AuthorRajaram Jain
PublisherGaneshprasad Varni Digambar Jain Sansthan
Publication Year1982
Total Pages164
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy