________________
भद्रबाहु-चाणक्य-चन्द्रगुप्त कथानक
ददाति कपिलां नन्दो ब्राह्मणेभ्यो मनःप्रियाम् । तदन्तिकं परिप्राण्य गृहीत्वा गच्छतानरम् ॥४४॥ भार्यावचनमाकर्ण्य चाणाक्यो निजगाद ताम् । त्वद्वाक्यतः प्रगृह्णामि गत्वा तां कपिलामहम् ॥४५॥ तत्संप्रधारणं श्रुत्वा कविमन्त्री कुतूहलात् । इदं निवेदयामास नन्दस्य प्रीतचेतसः ॥४६॥ बहुदुग्धसमायुक्तं महाराज समुज्ज्वलम् । गोसहस्रं प्रदेहि त्वं माहनेभ्यः सुभक्तितः ॥४७॥ कविवाक्यं समाकर्ण्य नन्दोऽपि निजगाद तम् । गोसहस्रं ददाम्येव ब्राह्मणानानय द्रुतम् ॥४८॥ ततश्चाणक्यमाहूय नरेन्द्रवचनादरम् । कविनिवेशयामास प्रधानाग्रासने तदा ।।४९॥ उपविष्टः स चाणक्यो दर्भासनकदम्बकम् । कुण्डिकाभिबूंशीकाभी रुद्ध्वा तस्थौ नृपान्तिके ॥५०॥ ततोऽयं कविना प्रोक्तो भट्टनन्दो जगाविदम् । तदर्थमासनं चैकं मुञ्च विप्राः समागताः ॥५१॥ तद्वाक्यतो विहायकं विष्टरं स द्विजः पुनः । एकैकमासनं मुक्तं भूयः प्रोक्तोऽमुनेदृशम् ॥५२॥ भट्टनन्दो वदत्येवं भवन्तं भक्तितत्परः । अग्रासने परो विप्रो गृहीतो भूभुजा महान् ॥५३॥ भव राजगृहाद् दूरे निर्गत्य त्वरितं द्विज । गत्वा बहिर्गृहद्वारे तिष्ठ त्वं सुसमाहितः ॥५४॥ निशम्य वचनं तस्य चाणक्यो रक्तलोचनः । जगाद कतिकाहस्तस्तं नरं परुषस्वनः ॥५५॥ इदं न युज्यते कर्तुं भवतो न्यायवेदिनः । भोजनार्थ निविष्टस्य त्वद्गृहे मन्निरासनम् ॥५६॥ अर्धचन्द्रं गले दत्त्वा चाणक्योधाटितोऽमुना । तन्निमित्तं रुषं प्राप्य निर्गतस्तद्गृहाद्वहिः ॥५७॥ नन्दवंशक्षयं शीघ्रं विदधामि विसंशयम् । एवं विचिन्त्य चाणाक्यो निजगाद वचः स्फुटम् ।।५८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org