________________
चाणक्यमुनिकथानकम् पश्य पादमिमं भिन्नमनया रुधिरारुणम् । शेषतोन्मूलयाम्येतां दर्भसूची नरोत्तम ॥२९॥ अवाचि कविना भूयश्चाणाक्यः खिन्नविग्रहः । खातं बहु त्वया विप्र पर्याप्तं खननेन ते ॥३०॥ कविवाक्यं समाकर्ण्य चाणाक्यो निजगावमुम् । तदाग्रहसमुद्भूतविस्मयव्याप्तमानसः ॥३१॥ मुलं नोन्मूलते यस्य तत्कि खातं भवेद् भुवि । स किं हतो नरैरश्छिद्यते यस्य नो शिरः ॥३२॥ यावन्मूलं न चाप्नोति दर्भसूच्याः कृतागसः । भूयो भूयः प्रबन्धेन तेन तावत् खनाम्यहम् ॥३३॥ निशम्य तद्वचः सत्यं नन्दस्य सचिवः कविः । दध्यो स्वचेतसि स्पष्टं विस्मयाकुलमानसः ॥३४॥ नन्दभूपालवंशस्य समर्थस्य महीतले । नाशं करिष्यति क्षिप्रं एष कोऽपि महानरः ॥३५॥ चिन्तयित्वा चिरं तत्र सभामध्ये जनाकुले । श्लोकमेकं लिलेखेमं कविविस्मितचेतसा ॥३६॥ नरेणकशरीरेण नयशास्त्रयुतेन च । व्यवसायेन युक्तेन जेतुं शक्या वसुंधरा ॥३७॥ . अन्यदाऽयं विलोक्यात्र श्लोकमेकं विचक्षणः । लिलेख निजहस्तेन चाणाक्यो धीरमानसः ॥३८॥ नरेणकशरीरेण नयशास्त्रयुतेन च । व्यवसायेन युक्तेन जेतुं शक्या वसुंधरा ॥३९॥ इमं लिखितमालोक्य कविः श्लोकं मनोहरम् । चाणाक्योपरि संतुष्टश्चेतसाश्चर्यमीयुषा ॥४०॥ अन्यदा भार्यया साधू चाणाक्योऽयं निमन्त्रितः । । कविनाश्चर्ययुक्तेन तद्गृहं स गतोऽशितुम् ॥४१॥ ततोऽपि कविना तेन चाणाक्यस्य गृहाजिरे । दीनारा बहवः शीघ्र निक्षिप्तास्तं परीक्षितुम् ॥४२॥ यशोमत्या गृहीतास्ते दीनाराः स्वगृहाङ्गणे । मादाय तान् पुरस्तुष्टा जगौ चाणाक्यमादरात् ॥४३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org