________________
भद्रबाहु-चाणक्य-चन्द्रगुप्त कथानक
एकैकं सकलं तत्र शरावं भक्तसंभृतम् । दीयते गुणयोगेन कवये हि दिने-दिने ॥१४॥ अत्रान्तरे कविः प्राह कुटुम्बं निजमादराद् । अन्धकूपसमासंगदुःखसंहृतमानसः ॥१५॥ वैरनितिने यो हि समर्थो नन्दभूपतेः । स परं भोजनं भुक्तां शरावेऽत्र सभक्तके ॥१६॥ कविवाक्यं समाकण्यं तत्कुटुम्बो जगाद तम् । त्वमेव भोजनं भुंक्ष्व शरावे सौदनं द्रुतम् ॥१७॥ उक्तं कुटुम्बमेतेन कविनासन्नवर्तिना। अन्धकूपान्तरे खात्वा बिलं तत्तटगोचरम् ॥१८॥ तत्तटस्थः प्रभुञ्जानः शरावे सौदनं तदा । एवमुक्त्वा बिलं कृत्वा कविस्तस्थी रुषान्वितः ॥१९॥ वर्षत्रयमतिक्रान्तं तत्रस्थस्य कवेः स्फुटम् । जीवनं चास्य संजातं मृतमन्यत् कुटुम्बकम् ॥२०॥ किंवदन्तीं तकां ज्ञात्वा कवेः कोपारुणेक्षणैः । प्रत्यन्तवासिभिः भूपैर्वेष्टितं नन्दपत्तनम् ।।२१॥ स्मृत्वा कवेः क्षणं राज्ञा नन्देनायमुदारधीः । पादयोः पातनं कृत्वा कूपादुत्तारितः पुनः ॥२२॥ क्षमापणं विधायास्य नन्देनायं प्रचोदितः । वरं ब्रूहि महाबुद्धे प्रसन्नोऽस्मि तव स्फुटम् ॥२३॥ नन्दस्य वचनं श्रुत्वा कविरूचे नरेश्वरम् । स्वहस्तेन मया द्रव्यं दातव्यं ते न चान्यतः ॥२४॥ निशम्य वचनं तस्य भूभुजा मन्त्रिणः कवेः । प्रतिपन्न सभामध्ये बालवृद्धसमाकुले ॥२५।। अन्यदा भ्रमताऽनेन कविना द्रव्यमिच्छता । दर्भसूची खनन् दृष्टश्चाणक्यश्चात्र संगतः ॥२६॥ दृष्टाऽमुं कविना पृष्टाश्चाणाक्यः स्वपुरः स्थितः । भट्ट किं कारणं दर्भसूची खनसि मे वद ॥२७॥ कवेर्वचनमाकर्ण्य चागाक्यो निजगावमुम् । दर्भसूच्याऽनया विद्धो व्रजन् पादे सुतीक्ष्णया ॥२८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org