________________
परिशिष्ट : २ चाणक्यमुनिकथानकम्
पुरेऽस्ति पाटलीपुत्रे नन्दो नाम महीपतिः । सुव्रता तन्महादेवी विषाणदललोचना ॥१॥ कविः सुबन्धुनामा च शकटाख्यस्त्रयोऽप्यमी । समस्तलोकविख्याता भूपतेरस्य मन्त्रिणः ॥२॥ अस्मिन्नेव पुरे चासीत् कपिलो नाम माहनः । तद्भार्या देविला नाम चाणक्यस्तत्सुतः सुधीः ॥३॥ वेदवेदाङ्गसंयुक्तः सर्वशास्त्रार्थकोविदः । समस्तलोकविख्यातः समस्तजनपूजितः ॥४॥ नीलोत्पलदलश्यामा पूर्णिमाचन्द्रसन्मुखी । यशोमतिः प्रिया चास्य यशोव्याप्तदिगन्तरा ॥५॥ कपिलस्य स्वसा तन्वी नाम्ना बन्धुमती परा। विधिना कवये दत्ता मन्त्रिणे कपिलेन सा ॥६॥ प्रत्यन्तवासिभूपानां क्षोभो नन्दस्य भूभुजः । कविना मन्त्रिणा सर्वो यथावृत्तो निवेदितः ॥७॥ कविवाक्येन भूपालो नन्दो मन्त्रिणमब्रवीत् । प्रत्यन्तवासिनो भूपान् धनं दत्वा वशं कुरु ॥८॥ नरेन्द्रवाक्यतोऽनेन मन्त्रिणा कविना तदा । वितीणं लक्षमेकैकं राज्ञां प्रत्यन्तवासिनाम् ॥९॥ अन्यदा नन्दभूपालो भाण्डागारिकमेककम् । पप्रच्छेदं कियन्मानं विद्यते मद्गृहे धनम् ॥१०॥ नन्दवाक्यं समाकर्ण्य धनपालो जगावमुम् । भाण्डागारे धनं राजन्न किचिद्विद्यते तव ॥११॥ प्रत्यन्तवासिभूपानां कविना तव मन्त्रिणा। नरेन्द्र दत्तमेतेषां त्वदीयं सकलं धनम् ॥१२॥ निशम्य तद्वचो राजा पुत्रदारसमन्वितम् । अन्धकूपे तकं वेगान्मन्त्रिणं निदधौ रुषा ॥१३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org