________________
भद्रबाहु-चाणक्य-चन्द्रगुप्त कथानक
अर्धफालकसंघस्ते महादेवि न शोभनः । न चायं वस्त्रसंवीतो न नग्नः सविडम्बनः ॥७४॥ ततोऽन्यस्मिन् दिने जाते चाफालकसंघकः । नगरान्तिकमायातः कौतुकाथं कलस्वनः ॥७॥ दृष्ट्वाऽमुं भूपतिः संघ बभाण वचसा हि सः । हित्वा तान्यर्धकालानि निम्रन्थत्वं त्वमाश्रयः ॥७६॥ यदा निर्ग्रन्थता नेष्टा नृपवाक्येन तैरिमे । तदा महीभृता प्रोक्ता भूयोऽप्याश्चर्यमीयुषा ॥७७॥ यदि निर्ग्रन्थतारूपं ग्रहीतुं नैव शक्नुथ । ततोऽर्धफालकं हित्वा स्वविडम्बनकारणम् ।।७८॥ ऋजुवस्त्रेण चाच्छाद्य स्वशरीरं तपस्विनः । तिष्ठत प्रीतचेतस्का मद्वाक्येन महीतले ॥७९॥ लाटानां प्रीतिचित्तानां ततस्तदिवसं प्रति । बभूव काम्बलं तीर्थ वप्रवादनृपाज्ञया ॥८॥ ततः कम्बलिकातीोन्नूनं सावलिपत्तने । दक्षिणापथदेशस्थे जातो यापनसंघकः ॥८१॥ .
॥ इति श्रीभद्रबाहुकथानकमिदम् ॥
[ हरिषेणाचार्यकृत बृहत्कथाकोष (१०वीं सदो) से ]
कथानक सं० १३१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org