Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya

View full book text
Previous | Next

Page 146
________________ १३० आत्मतत्वविवेकः च(१) सहकारिसमवधाने सति(२) कर्तृस्वभावत्वं भा. वस्य, तथा च तदसन्निधानेऽकरणमप्युपपद्यताम् , तथापि तज्जातीयमात्र एवेयं व्यवस्था, न त्वेकस्यां व्यक्ती, करणाकरणलक्षण(३)विरुद्धधर्मसंसर्गस्य प्रत्यक्षसिद्धतया तत्र दुर्वारत्वादिति चेन,(४)विरोधस्वरूपानवधारणात(५)। दीधितिः। शयासादितस्वभावविशेष एवोत्पद्यमानः क्षणिको भाव(६)स्त. तत्कार्य(७) कुर्वाणः कुर्वद्रूप इत्यभिधीयते, क्षणिकत्वं च भावानां करणाकरणत्व(८)लक्षणविरुद्धधर्माध्यासात् ,लौकिकस्तु व्यवहा. रोऽनादिविकल्पवासनावशात कल्पितरेवानुगतरूपैः कार्यकारण. भावस्यापि(९) कल्पनादिति चेन्मेवम् , तादृशविरुद्धधर्माध्यासस्य निरसनीयत्वात , अपाकरणीयत्वाच विधिरूपतया प्रतिभासमानेषु सामान्यादिषु बाधकानामिति । इयम् सहकारिणा लामे करणमलामे चाकरणमिति व्यवस्था । दीधितिटिप्पणी। घटादिरतः स्वकारणेति । स्वकारणेन बोजेन बीज एव जनितोऽनः स्वयमपि तथेत्यर्थः । क्षणिकत्वसिचैव तव सर्वाभिमतं स्यात(१०), तदेव तु नास्तीत्याह। मैवमिति। अाकरणीयत्वाञ्चेति परान्वयि । बा. धकानाम् अतद्यावृत्तित्वसाधकरूपाणाम् । इदमः पूर्वोक्तद्वयपराशेन द्विवचननपुंसकत्तापत्तिः, अतस्तदर्थमित्यन्तर्भावेणाह । इयमिति ॥ (१) भवतु वा-इति शङ्कर मिश्रसम्मतः पाठः । (२) समवधाने-पाठः। (३) करणाकरण-पाठः । (१) चेनैवम्-पुण० पु० पा० । (५) पानवबोधात्-पाटः । पापरिज्ञानात्-पुण० पु० पा० । (६) क्षणिकोऽभाव-कलि० मु० पु० पा०। (.) स्तत्कार्य-पाठः । (८)करणाकरण-पाठः । (९) कार्यकारणरूपस्यापि-पाठः । कार्यकारणभावस्य-पाठः। (१०) वासभिमसपहे-इत्यादर्शपुस्तके पाठः । - -

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217