Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
टिप्पणीसमलङ्कृतदीधिति-कल्पलताख्यटीकाद्वयविभूषितः । १५१ र्षाभ्यां(१)विशेषः । द्वितीयस्तु स्यादपि यदि तेषां योगपद्यं भवेत, ऋमिणस्तु सहकारिण इत्युक्तम्। सहकारि - सहितः स्वभावेन(२) करोतीति वक्तरि (तु)जातनष्ट एव करोत्वित्युत्तरप्रसङ्गो निरर्गलशैशवस्येत्यलमनेन ।
दीधितिः । भालाभाभ्याम् , विशेषः कार्योत्पादानुत्पादरूपः । व्यापाररूपस्य फलस्य सहकारिलाभालाभाभ्यामित्यर्थ इत्यन्ये(३)। तदयमर्थः, साक्षात्कार्यजनकत्वे स्वस्य व्यापारद्वारा जनकत्वे च व्यापारस्य सहकारिसाकल्यं तन्त्रम्(४), न चेदं निरन्वय(५)ध्वस्तस्यास्ति, नियतान्वयव्यतिरेकशालिन एव च समवधा. नस्य नियामकत्वान्नातिप्रसङ्ग इति । सहकारिसहित इत्यस्याने स्वतो(६) व्यापारतो वेत्यादिः। जातनष्टः निरन्वयध्वस्त :(७)
दीधितिटिप्पणी। रिसाकल्य इत्यादेर्यागे व्यभिचारादाह । तदयमर्थ इति । निरन्वयः निर्व्यापारः । न्यूनत्वादाह । सहकारीत्यादि ॥
कल्पलता।
ननु यथा स्वानवच्छिन्नेऽपि देशे आत्मनि(८) इ.
(१) प्रकर्षापकर्षाभ्या-कलि. मु० पु० पा० । प्रकर्षनिकर्षाभ्या-पुण० पु० पा० । (२) सहितस्वभावेन-पुण० पु० पा०।। (३ ) अरुचिबीजं तु व्यापारस्य कलत्वोपवर्णनवैयर्थम् । (४) तन्त्रम् , प्रयोजकम् , फलोत्पाद इति शेष:। (५) निर्णय-कलि० मु. पु. पा०। (६ ) इत्यस्य स्वतो-पुण० पु. पा० । (.) निर्णय वस्तःकलि. मु. पु० पा०। (८) देशे स्वात्मनि-कलि. मु० पु० पा० ।

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217