Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
1613
-
११२० आत्मतत्त्वविवेकः वा तद्विरुद्धधर्माध्यासेन भेदे(१), आहोस्वित् शक्त्यशक्योर्विरोधे।
दीधितिः। साध्यत्वेन विवक्षित(२) इत्याहुः(३) । शत्यशत्त्योः साम.
ासामथ्र्ययोः । अग्रे च कारित्वाकारित्वे करणाकरणे च सा. मासामर्थ्यपरे । एवं भिन्नकालशत्यशक्त्योरित्यपीति(४)। यदा पाक् प्रसङ्गविपर्यययो()रिति भेदसाधकयोर्देशभेदेन करणाकरणयोरप्युपलक्षकम्, तब च एकत्र कारिणो देशान्तरेऽपि कारित्वाभ्युपगमे सर्वदेशानां सर्वकार्यवचरूपमद्वैतम्, एकत्रा. कारिण:(६) सर्वत्राकारित्वाभ्युपगमे च सर्वकार्यशून्यत्वरूप. मद्वैतम् , कचित्कारित्वस्य कचिच्चाकारित्वस्य चाभ्युपगमे का.
दीधितिटिप्पणी। स्वाइन माह । शक्तयशक्त्योरिति । अग्रे तृतीयविकल्पदूषणमध्ये । कारित्वाकारित्वादिकं विभिन्नस्थितमनेनोक्तम् (७)। यथाश्रुतपदा.
रक्षार्थ स्वातन्त्र्येण कारित्वाकारित्वयोरप्युट्टङ्कनं दर्शयति । यद्वे. ति। प्रागिति । अपि चेत्यनेनोक्तयोरित्यर्थः, तथाच प्रसङ्गविपर्यययोः करणाकरणयोश्च न दोष इत्यर्थः । एवं च पूर्व यस्योत्कीर्तनं, इदानी स इत्यनेन तत्रैष दोषदानमुचितमिति भावः । एवं व्याख्याने ती. त्यादिना कारित्वपक्षे दृषणस्यानुक्तत्वान्न्यूनता स्यादतस्तत्रापि नयाख्यामाह । तत्र चेति ॥
(१) तथा च क्वचिदपि भेदाप्रांसद्धी विपर्ययानुमाने साध्याप्रसिद्धिः, तत्प्रसिद्धौ च कुत्रापि तम्याप्यत्वानुपगमे हेतोरनैकान्तिकत्वं च दोष इति भावः । अन्यत्र हेतौ तद्व्याप्यत्वाभ्युपगमेपि प्रकृ. तहेतावनभ्युपगमपक्षमभिप्रेत्याह । शक्त्यशवत्योगित ।
(२) विकल्पित--पुण० पु० पा० ।
( ३ ) अत्रारुचिबीजं तु आपादकीकृतस्य साधनस्य तन्मतसिद्धस्यास्माभिः साधयितुमनईत्वमित्यादि बोध्यम् ।
(१) भिन्नत्यादिवक्ष्यमाणपन्थेपि शक्त्यशक्तिपदे सामर्थ्यासामर्थ्यपरे इत्यर्थः । ( ५ ) प्रसङ्ग-तद्विपर्यययारित्यस्यार्थतोऽनुवादोऽयम् । ( ६ ) कारिणश्च-पुण० पु० पा० । ( • ) स्थितमानेनो-इत्यादर्शपुस्तके पाठः । स्थितिमतेनो-पा० २ पु०।

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217