Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya

View full book text
Previous | Next

Page 186
________________ आत्मत स्वविवेकः दीधितिः । र्थस्य रूपादेरुपादे कार्यदेशे (१) सुखादिकारित्वं स्यात्, सा मर्थ्याविशेषात् (२), असामर्थ्ये च विरुद्धधर्माध्यासाद्भेदापत्तिः । यदि च सामर्थ्याविशेषेऽपि स्वभावादेव प्रतिनियत देशकार्यकारिस्वम ( ३ ), तदा तथैव प्रतिनियतकालकार्यकारित्वमस्त्वित्युकत्वात् (४) । अभिहितं च (५) देशभेदावच्छेदेनैकस्य कालक्ष्येव कालभेदावच्छेदेनैकस्यापि देशस्य करणाकरणादिक (६)मविरुद्धमिति ॥ د दीधितिटिप्पणी | 1 " रूपादेः स्वजभ्यक्षणिकापररूपादिदेशे तत्रैव घटादौ सुखादिजनकता स्यादिति भावः । न तु स्वदेश इत्येवास्त्विति वाच्यम् । नैमित्तिकदेशस्य स्वदेशत्वात् एवं च स्वाधिकरणदेशयोर्भेददर्शनार्थमेव (उपादेय) नैमिसिक पदयोरुपादानमिति बोध्यम् । फक्किका तु पूर्व स्वाधिकरणस्थानधिकरणदेशानादरे कृता (७) १ । विरुद्धधर्मेति । लामभावविशिष्टस्य देशान्तरे सत्वरूपमित्यर्थः ॥ कल्पलता । ननु सामर्थ्यासामर्थ्ये विरुद्धे एव न भवत इत्यत आह(८) । न तृतीय इति । विरोधेति । परस्परविरहात्मनोः परस्परविरहव्याप्ययोर्वा विरोध (९) धौव्यमित्यर्थः । नन्वेकदेशावच्छेदेन कारित्वाकारित्वे ( १ ) उपादेयं कार्य रूपादे रूपान्तरम्, तादृशि देश इत्यर्थः । --- गुणानन्दः । (२) तादृशसुखादिसामर्थ्यस्य तद्देश इव स्वोपादेयकार्यदेशेष्याविशेषात् । - गुणानन्दः । ( ३ ) प्रतिनियतदेशः सुखादेरात्मा स चातिरिन्तो न वेत्यन्यदेतत् । —–गुणानन्दः । • ( ४ ) तथैव, स्वभावादेव । प्रतिनियतकालः, सहकारिसमवधानोत्तरकाल: । -गुणानन्दः । ( ५ ) मनु मास्तु तद्देशावच्छेदेन सामर्थ्याभाव इव तत्कालावच्छेदेन सामर्थ्याभावः, तत्कालावच्छेदेन कारित्वाभावेनैव समं विरोधोऽस्त्वित्याशङ्कयाह । अभिहितमिति । - गुणानन्दः । ( ३ ) करणाकरणादीति । श्रादिपदात् सामर्थ्यासामर्थ्यपरिग्रहः । - गुणानन्दः । (७) कृतम् - इत्यादर्शपुस्तके पाठः । ( ८ ) इत्याह- कलि० मु० पु० पा० । ( ९ ) व्याप्ययोर्विरोधे - पुण० पु० पा० ।

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217