________________
आत्मत स्वविवेकः
दीधितिः ।
र्थस्य रूपादेरुपादे कार्यदेशे (१) सुखादिकारित्वं स्यात्, सा मर्थ्याविशेषात् (२), असामर्थ्ये च विरुद्धधर्माध्यासाद्भेदापत्तिः । यदि च सामर्थ्याविशेषेऽपि स्वभावादेव प्रतिनियत देशकार्यकारिस्वम ( ३ ), तदा तथैव प्रतिनियतकालकार्यकारित्वमस्त्वित्युकत्वात् (४) । अभिहितं च (५) देशभेदावच्छेदेनैकस्य कालक्ष्येव कालभेदावच्छेदेनैकस्यापि देशस्य करणाकरणादिक (६)मविरुद्धमिति ॥
د
दीधितिटिप्पणी |
1
"
रूपादेः स्वजभ्यक्षणिकापररूपादिदेशे तत्रैव घटादौ सुखादिजनकता स्यादिति भावः । न तु स्वदेश इत्येवास्त्विति वाच्यम् । नैमित्तिकदेशस्य स्वदेशत्वात् एवं च स्वाधिकरणदेशयोर्भेददर्शनार्थमेव (उपादेय) नैमिसिक पदयोरुपादानमिति बोध्यम् । फक्किका तु पूर्व स्वाधिकरणस्थानधिकरणदेशानादरे कृता (७) १ । विरुद्धधर्मेति । लामभावविशिष्टस्य देशान्तरे सत्वरूपमित्यर्थः ॥
कल्पलता ।
ननु सामर्थ्यासामर्थ्ये विरुद्धे एव न भवत इत्यत आह(८) । न तृतीय इति । विरोधेति । परस्परविरहात्मनोः परस्परविरहव्याप्ययोर्वा विरोध (९) धौव्यमित्यर्थः । नन्वेकदेशावच्छेदेन कारित्वाकारित्वे
( १ ) उपादेयं कार्य रूपादे रूपान्तरम्, तादृशि देश इत्यर्थः । --- गुणानन्दः । (२) तादृशसुखादिसामर्थ्यस्य तद्देश इव स्वोपादेयकार्यदेशेष्याविशेषात् । - गुणानन्दः । ( ३ ) प्रतिनियतदेशः सुखादेरात्मा स चातिरिन्तो न वेत्यन्यदेतत् । —–गुणानन्दः ।
•
( ४ ) तथैव, स्वभावादेव । प्रतिनियतकालः, सहकारिसमवधानोत्तरकाल: । -गुणानन्दः । ( ५ ) मनु मास्तु तद्देशावच्छेदेन सामर्थ्याभाव इव तत्कालावच्छेदेन सामर्थ्याभावः, तत्कालावच्छेदेन कारित्वाभावेनैव समं विरोधोऽस्त्वित्याशङ्कयाह । अभिहितमिति । - गुणानन्दः ।
( ३ ) करणाकरणादीति । श्रादिपदात् सामर्थ्यासामर्थ्यपरिग्रहः । - गुणानन्दः ।
(७) कृतम् - इत्यादर्शपुस्तके पाठः ।
( ८ ) इत्याह- कलि० मु० पु० पा० ।
( ९ ) व्याप्ययोर्विरोधे - पुण० पु० पा० ।