________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलताकपटीकाद्वयविभूषितः । १६९ दीधितिः । सामर्थ्ययोः करणाकरणयोश्वाभ्युपगमे (१) विरुद्धधर्मसंसर्गोऽसिद्ध इयर्थः ॥
नन्वेकदेशे समर्थस्य देशान्तरे किमिदमसामर्थ्यं यद्विरुद्धम ते (२), किं सामर्थ्याभावविशिष्टस्य देशान्तरे ( तत्कार्याकारि स्वस्यानिषेधात् ) सच्वम्, देशान्तरावच्छेदेन तस्य सामर्थ्याभाववैशिष्टयम् (३), किं वा सामर्थ्यविशिष्टस्य ( ४ ) ( तस्य ) तनिष्ठसामर्थ्यस्य वा देशान्तरेऽभावः । नाद्यं (५) द्वयम्, अनभ्युपगमात् (६) । नेतरत् (७), अविरोधात् । एतेनाकरणं व्याख्यातम् । न चैकदेशकालसतो देशान्तरे कालान्तरे वा ( ८ ) कथमसश्वमिति वाच्यम् । तत्रासवं हि तद्वृत्तित्वाभावः (९), तनिष्ठाभावप्रतियो गित्वं वा, न चेदमन्पत्र सश्वेन विरुद्धयंते, अतद्विरत्वात्, अतदाक्षेपकत्वाच्चेति (१०) । मैत्रम् । एवमपि नैमित्तिकसुखादिसम
दीधिति टिप्पणी | अभ्युपगम इति । तथा चानयोरभ्युपगमे कथं विरुद्धधर्माध्यास इति भावः ॥
अनभ्युपगमात् देशान्तरस्थ बीजादेर्देशान्तरेऽनभ्युपगमात् । ए· तेनाकरणामति । एकदेशकारकस्य किमिदं देशान्तरेऽकरणमित्यादिरूपमित्यर्थः । इदानीं सत्त्वासत्त्व (११) रूपविरुद्ध धर्माध्यासमाशय निषेधति । न चेति । एकेति कालेप्यन्वाये । अतदाक्षेपकत्वात् तदाक्षेपकत्वाभावात् । मैत्रमिति । आत्म (१२) निष्ठ सुखादि जनकघटादि
( १ ) अभ्युपगम इत्यन्तं प्रसङ्गविपर्ययस्थितावपीत्यस्यार्थकथनम् । एकत्रेत्यादिः । - गुणानन्दः । (२) यद्विरुद्धचेत - पुण० पु० पा० । (३) वैशिष्टयं वा - पुण० पु० पा० । ( ४ ) विशेषितस्य – पुण० पु० पा० । (५) नाद्यः - कलि० मु० पु० पा० । ( ६ ) क्षणिकपरमाण्वात्मकस्य तम्य देशान्तरवृत्तित्वस्यासम्भवात् तदसम्बद्ध देशस्य तत्रिष्ठाभावाधिकरणतावच्छेदकत्वासम्भवाश्चेति भावः । - गुणानन्दः ।
(७) न चेतरः- कलि० मु० पु० पा० । ( ८ ) कालान्तरे च पुन० पु० पा० । ( ९ ) तद्वृत्त्यभाव: - कलि० मु० पु० पा० (१०) तद्विरहा क्षेपकान्यत्वाचेत्यर्थः । - गुखानन्दः । ( ११ ) इदानीं साध्यसत्त्व- पा० २ पु० । इदानीं साध्यासळयु - इत्यादर्शपुस्तके पाठः । (१२) मैवमिति । निष्ठ-पा० २५० ।
२२