________________
१६८
आत्मतत्वविवेकः
न्त । एवम्भूतविरोधलक्षणव्यावृत्तिर्भिन्नकालशक्त्यशक्स्योरपीत्युक्तप्रायम् , तत्प्रतिसन्दधीथा। तस्मात प्रसङ्गतद्विपर्यय(१)स्थितावपि असिद्धो विरुद्धधर्माध्यासः(२)।
दीधितिः। - वाहियत इत्यर्थः । अतो नोत्तरोद्देश्य(३)विधेयावैशिष्टयम्(४) । उपसंहरति । तस्मादिति । देशभेदेनेव कालभेदेनापि साम
दीधितिटिप्पणी। धर्माध्यासोऽसिद्धः, तयोरेव तत्साधकत्वादत आह । देशभेदेनेति ।
(१) प्रसङ्गविपर्यय-पाठः।।
(२) अत्र रत्नकीर्तिः, 'न वयं परिभाषामात्रादेकत्र कार्ये देशभेदादविरुद्धे शक्त्यशक्ती धूमः; किन्तु विरोधाभावात, तद्देशकार्यकारित्वं हि तदेशकार्याकारित्वेन विरुद्धम् , न पुनर्देशान्तरे का. योकारित्वेनाम्यकार्यकारित्वेन वा । यद्येवं, तत्कालकार्यकारित्वं तत्कालकार्याकारित्वेन विरुद्धम् , न पुन: कालान्तरे तत्कार्याकारित्वेन कार्यान्तरकारित्वेन वा, तत् कथं कालभेदपि विरोध इति चेत्, उच्यते । द्वयोहि धर्मिणोरेकत्रानस्थिति नियमः परस्परपरिहारस्थितिलक्षणो विरोधः, स च सा. खात्परस्परप्रत्यनीकतया भावाभाववद्वा भवेत् , एकस्य वा नियमेन प्रमाणान्तरेण बाधनात्रित्यत्वसत्त्ववद्वा भवेदिति न कश्चिदर्थभेदः, तदत्रैकर्मिणि तत्काल कार्यकारित्वाधारे कालान्तरे तर कार्याकारित्वस्यान्यकार्यकारित्वस्य वा नियमेन प्रमाणान्तरेण बाधनीराधः । तथाहि, यत्रैव धर्मिणि तत्कालकार्यकारित्वमुपलब्धं तत्रैव कालान्तरे तत्कार्याकारित्वमन्यकार्यकारित्व वान ब्रह्मणाप्युपसंहर्तुं शक्यते येनानयोराविरोधः स्यात् , क्षणान्तरे कथितप्रसङ्गविपर्ययहेतुभ्यामवश्यम्भावन धर्मिभेदप्रसाधनात् । न च प्रत्यभिज्ञानादेकत्वसिद्धिः, तत्पौरुषस्य लनपुनर्जातकेशनखादावण्युपलम्भतो निर्दलनात् , लक्षणभेदस्य च दर्शयितुमशक्यत्वात् । न चैवं समानकालकार्याणा देशभेदेपि धर्मिभेदो युक्तः , भेदसाधकप्रमाणाभावात् , इन्द्रियप्रत्यक्षेण निरस्तविभ्रमाशनाभेदप्रसाधनाच, इति न कालभेदेपि शक्त्यशक्त्याविरोधः स्वसमयमात्रादपहस्तयितुं शक्यः, समयप्रमाणयोरप्रवृतेः-'इति स्वसिद्धान्तरक्षागृहीतदीक्षः पचमुत्प्रेक्षत । तञ्च बाधकाभावे प्रत्यभिज्ञाया अप्यभेदसाधकत्वस्य पूर्वमुकत्वात् , निरसिष्यमाणत्वाञ्च प्रत्यभिज्ञाप्रामाण्य बाधकाना, नदतदेशकार्यकारित्वाकारित्वयोः तदतत्का. लकार्यकारित्वाकारित्वयोश्च वैलक्षण्यानुपपनी सिद्धाया न निरवद्यतया विद्योतते, सान्दग्धाभ्यां प्रसअन्तद्विपर्ययाभ्यां च तस्यैव भेदव्यवस्थापनयात्यं पुनरधिकं मर्धानमधिरोहतीति विपश्चितो विचिन्वन्तु ।
(३) नोत्तरत्र उद्देश--कलि. मु० पु० पा० ।
(५) उत्तरत्र, तत्र तदकरणमित्यत्र ग्रहे । उद्देश्यविधेययोः, उद्देश्यतावच्छेदकविधेयतावपछेदकयोः। अवैशिष्टयम् , अभेदः ।--गुणानन्दः । ।