Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya

View full book text
Previous | Next

Page 192
________________ आत्मतस्वविवेक प्रथमे द्वयमप्यनैकान्तिकम्, अनियमदर्शनात् । द्वितीये द्वयमप्यन्यथासिद्धम् , एकान्तासामर्थ्यप्रयुक्तखादयन्ताकरणस्य, सामर्थे सति सहकारिसन्निधिप्र. युक्तत्वात करणनियमस्य । दीधितिः। कदापि तन करोतीति, तत्राह । द्वयमपीति । द्वयम् प्रसङ्गस्य विपर्ययस्य च साधनम् । अनियति । अङ्कुरकारिणामकुराकारिणां च बीजजातीयानां भवताप्यङ्गीकारादिति भावः । अन्यथासिदम् व्याप्यत्वासिद्धम् । एकान्तेति । सामर्थ्यम्(१) स्वरू. पयोग्यता सहकारियोग्यता च, अत्यन्ताकरणम् यावत्सव. पकरणम्, तथा च शिलादेः सहकारिसहितस्याप्यकरणं स्वरूपायो. ग्यत्वात् , स्वरूपयोग्यस्य च बीजादेरकरणं सहकारिवैकल्यात्, तस्य चात्यन्तिकत्वकादाचिकत्वाभ्यामकरणस्याप्यायन्तिकत्वकादाचित्कत्वे इत्यर्थः ।। दीधितिटिप्पणी। प्रससाध्यामावस्यैव हेतुतया उभयत्रैव यजातीयं सर्वमित्यादिसर्वात्मनैव(२) कर्तुमुचितामति वाच्यम् । सर्वपदं विनापि प्रसनीयला. ध्याभावप्राप्तौ तत्पदाप्रवेशात् 'यत्किञ्चित्करणाभावमेव सर्वकर. णाभावं ब्रूमः । असामर्थपदस्य करणस्वरूपयोग्यत्वाभावपरत्वे जा. तबिनष्टादेरत्यन्ताकरणस्य तत्प्रयुक्तत्वाभावाद्यभिचार स्यादतस्त. प्रापि तत्प्रयुक्तत्वं रक्षयति । सामर्थ्य मिति। स्वरूपयोग्यतेत्यादि । तथा च उभयाभावो विवक्षितः। उभयाभावं दर्शयति । शिलादे. रिति । एक......माह १ । तस्य चेति ॥ (१) एकान्तासामध्येंत्यत्र सामर्थ्यपदं स्वरूपयोग्यतापरं सहकारियोग्यतापरं च, सामर्थे सतीत्या तु स्वरूपयोग्यतापरमिति भावः।-गुणानन्दः । (२) मष्टिव- इत्यादर्शपुस्तके पाठः । सर्वबाह्यमेव-पा०२ पु०।

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217