Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya

View full book text
Previous | Next

Page 175
________________ टिप्पणीसमलङ्कतदीधिति-कल्पलतास्पटीकाद्वयविभूषितः । १५९ . . . कल्पलता। हाय दूर(१) पलायितेन त्वया संन्यस्तमेव, तदा सि. द्धं नः समीहितन, यतः पराजितोऽस्येव, तथा च के. न भयेन योगाचारनय(२)नगरप्रवेशस्तवेत्यर्थः ॥ __ ननु यावत्योऽर्थक्रिया भिन्नदेशा(३)स्तावढ़ेदं कारणमस्तु, को विरोध इति चेन्न । तेषामपि प्रत्येक तत्प्रसङ्गस्य तदवस्थत्वात् । एवमेकस्य जगति वस्तुत दीधितिः। भिन्नदेशकार्यद्वयजनकस्य एककार्यदेशे कार्यान्तरसामर्थ्य तत्रापि तत्कार्यजननमसामर्षे च कारणभेद आपद्यतेत्याशयं(४) मन्यमानो भ्रान्त आशङ्कते । नन्विति । आशयं प्रकाशयति । तेषामिति ॥ दीधितिटिप्पणी । हेतुफलेत्यादिना कारणभेदो वेत्यस्य दूषितत्वात् पुनरुत्थानं न घटत इत्यत आशयाबोधनिबन्धनोत्था(५)नमाह । भिन्नदेशति । येन कारणेन देशद्वये कार्यद्वयं जनितं तत्रैककार्याधिकरणेऽपरकार्याजनकत्वरूपविरुद्धधर्मेण तयोर्भेद एवापाद्यत इत्येव बुद्धा, तत्र च बाह्या. र्थशून्यत्वं कथं स्यात् । कार्यानधिकरणदेशादिकमादाय (हि) भेदा. पादनं तद्भेदापत्या शून्यत्वमित्याशयेन फकिकेत्यर्थः । श्राशयमिति। तथा(६) बोध एव भ्रान्तत्वम् । (आशयम्) वास्तवाशयम प्रकाश. यति । तेषामपीति मूलम् , तेषाम् भिन्नानाम | (१) तच्चेदियदूर-पुण० पु० पा०। (२) योगाचार-कलि० मु. पु. पा० । ( ३ ) देशस्था-पुण० पु. पा० । ( ४ ) स्वदेशे स्वोपदियकार्य प्रति शको भावस्तत्रैव सहकार्य ज्ञामसुखा यपि प्रति समर्थश्चेत् तत्रापि जनयेत, तथा चोपादेयसहकार्ययोर्देशाद्वैतमभिन्नदेशता स्यात् , यद्यत्र जननसमर्थ तत् तत्र जनयतीति प्रसङ्गस्यादुष्टत्वात् , विपर्ययस्यादुष्टत्वे कारणभेदः क्षणिकस्यापि कारणस्यं तदतदेशसाम.सामर्थ्यरूपविरुद्धधर्मसंसर्गानेदो नानात्वं स्यादित्याशयमित्यर्थः । (५) त्याप -इत्यादर्शपुस्तके पाठः। (६) आशयस्येतरण-इत्यादर्शपुस्तके पाठः।

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217