________________
टिप्पणीसमलङ्कतदीधिति-कल्पलतास्पटीकाद्वयविभूषितः । १५९
. . . कल्पलता। हाय दूर(१) पलायितेन त्वया संन्यस्तमेव, तदा सि. द्धं नः समीहितन, यतः पराजितोऽस्येव, तथा च के. न भयेन योगाचारनय(२)नगरप्रवेशस्तवेत्यर्थः ॥ __ ननु यावत्योऽर्थक्रिया भिन्नदेशा(३)स्तावढ़ेदं कारणमस्तु, को विरोध इति चेन्न । तेषामपि प्रत्येक तत्प्रसङ्गस्य तदवस्थत्वात् । एवमेकस्य जगति वस्तुत
दीधितिः। भिन्नदेशकार्यद्वयजनकस्य एककार्यदेशे कार्यान्तरसामर्थ्य तत्रापि तत्कार्यजननमसामर्षे च कारणभेद आपद्यतेत्याशयं(४) मन्यमानो भ्रान्त आशङ्कते । नन्विति । आशयं प्रकाशयति । तेषामिति ॥
दीधितिटिप्पणी । हेतुफलेत्यादिना कारणभेदो वेत्यस्य दूषितत्वात् पुनरुत्थानं न घटत इत्यत आशयाबोधनिबन्धनोत्था(५)नमाह । भिन्नदेशति । येन कारणेन देशद्वये कार्यद्वयं जनितं तत्रैककार्याधिकरणेऽपरकार्याजनकत्वरूपविरुद्धधर्मेण तयोर्भेद एवापाद्यत इत्येव बुद्धा, तत्र च बाह्या. र्थशून्यत्वं कथं स्यात् । कार्यानधिकरणदेशादिकमादाय (हि) भेदा. पादनं तद्भेदापत्या शून्यत्वमित्याशयेन फकिकेत्यर्थः । श्राशयमिति। तथा(६) बोध एव भ्रान्तत्वम् । (आशयम्) वास्तवाशयम प्रकाश. यति । तेषामपीति मूलम् , तेषाम् भिन्नानाम | (१) तच्चेदियदूर-पुण० पु० पा०। (२) योगाचार-कलि० मु. पु. पा० । ( ३ ) देशस्था-पुण० पु. पा० ।
( ४ ) स्वदेशे स्वोपदियकार्य प्रति शको भावस्तत्रैव सहकार्य ज्ञामसुखा यपि प्रति समर्थश्चेत् तत्रापि जनयेत, तथा चोपादेयसहकार्ययोर्देशाद्वैतमभिन्नदेशता स्यात् , यद्यत्र जननसमर्थ तत् तत्र जनयतीति प्रसङ्गस्यादुष्टत्वात् , विपर्ययस्यादुष्टत्वे कारणभेदः क्षणिकस्यापि कारणस्यं तदतदेशसाम.सामर्थ्यरूपविरुद्धधर्मसंसर्गानेदो नानात्वं स्यादित्याशयमित्यर्थः ।
(५) त्याप -इत्यादर्शपुस्तके पाठः। (६) आशयस्येतरण-इत्यादर्शपुस्तके पाठः।