________________
१६० . आत्मतस्वविवेकः .... स्वस्याऽलाभ साध्वी क्षणभङ्गसाधनपरिशुद्धिः (१)।
कल्पलता।
द्वितीय(२) पक्षमाशय निराफरोति । नन्विति । यावत्य इति । यत्र यत्र देशे त्वया कारण(३)मापा. यते तत्र सर्वत्र तीजमस्ति समर्थ च करोति चेति क विरोध इत्यर्थः । तेषामपीति(४) । कारणानां देशभेदेन (भेदे) यत् क्षेत्रपतितं तत्कुशूले करोति न था, पत् कुशलस्थं तच्च दूरे(५) करोति न वेति तत्तदेवाधिकृत्य प्रसङ्गतद्विपर्ययो वक्तव्याविति किमप्येक(६) जगति न स्यादिति किंधर्मिक क्षणिकत्वं साधनीयमित्यर्थः॥
(१) न चकस्य जगति वस्तुतत्त्वस्यालाभेपि अविवक्षितकत्वानेकत्वकबीजसामान्यपक्षकप्रसङ्गविपर्यययोर्न कश्चिदोष इति धाच्यम् । पूर्वक्षणवती भावस्तदव्यवहितातरक्षणवर्तिभावभिन्नो विरुद्धधर्माध्यस्तत्वादित्यनुमाने यतः कुताश्चत् भेदमादाय सिद्धसाधनम् , मिथ प्रतियोगिकभेदासिद्धरामरं च, न व मिथःप्रतियोगिकभेदाश्रयत्वं साध्यम् , यतः कुतश्विद्भेदस्यापि मिथाभेदत्वेन पुनस्तहोषतादवस्थ्यात् । अतः सामप्रियो धर्म्यसामर्थ्याश्रयाद्भिन्नः इति साध्यम् , अलीकमादाय परमते प्रतियोगिप्रसिद्धिः, बीजान्तरमादायैव वा, तस्यापि तदङ्कुरं प्रत्यममर्थत्वादिति वस्तुस्थितिः, तत्र चैकस्य जगति प्रस्तुतत्त्वस्यालाभ इत्यादिना पक्षाप्रसिद्धिः स्वरूपासिद्धिर्वोद्भाव्यते, सामर्थ्यस्य पक्षतावच्छेदकत्वे आयापि, उपलक्षणीभूय तद्व्यक्तित्वादिस्वरूपपक्षत वच्छेदकान्तरपरिचायकत्वे तु द्वितीयैव, सर्वस्यैव जगतो देशान्तर कार्याजनकत्वेनासामर्थ्यस्योपगन्तव्यत्वात, एवञ्चावृत्तित्ववसामादिकमेव दोषः । यद्यपि स्वमते परमते चाऽवृत्तित्वं सामर्थ्यस्य नास्तीति दोषाप्रसिद्धितादवस्थ्यम्, तथापि ग्रन्थस्य दोषप्रसञ्जन एव तात्पर्यात्र तदप्रसिद्धावपि काचित् क्षतिः, आपायव्यतिरकस्य तकानुकूल्यात् , एवञ्च तदेशकार्यकारित्वं यदि देशान्तरकालान्तरीयकार्यकारित्वाभाव. विरुद्धं स्यात् अवृत्ति स्यादित्यत्र प्रघट्टकतापर्यम् , अयूनावापायापादकयोः प्रसिद्धिः ।
(२) द्वितीय-पुण. पु. पा०। (३) त्वया कारण-कलि. मु. पु. पा० । (१) तेषामिति-पुण० पु० पा०। (५) तच्चत्वरे-पुण० ० पा० । (१) किमप्ये-कलि० मु० पु० पा०। ..