________________
टिप्पणीसमलङ्कृतदीधिति-कल्पलताख्यटकिाद्वयविभूषितः। १६९ . अस्तु तर्हि कश्चिदोष एवा(१)नयोरिति चेत, स पुनः कस्मिन् साध्ये । किं सामर्थ्यासामर्थ्ययोः(२),कि
दीधितिः। अनयोः देशगर्भप्रसङ्गविपर्यययोः । सः दोषः। साध्ये(३) विषये । सामयति । साध्ययोरिति विपरिणतेनान्वयः । केचित्त विरुद्धधर्मसंसर्गा(४)द्भेदापत्तिभयेन यदि कश्चित् कारिणोऽपि सामर्थ्य नोपेयात् तदा तं प्रति तदपि साध्यम् , यक्ष्यति, स. वत्राशक्ताविति । अशक्ती असामर्थे । भेदोपि ( च ) परम्पर. या प्रसङ्गादिसाध्यः. विरोधस्तु भेदसिद्धयनुगुणः प्रमाणान्तर.
दीधितिटिप्पणी। सामर्थ्यस्य(६) प्रसङ्गहेतुत्वमेव, न तुसाध्यत्वमत आह । साध्य इति । साध्यपदस्य यथाश्रुतार्थरक्षकस्य मतमाह । केचिस्विति । तदा, तत् सामर्थ्यमपि, तथा चेतरानुमानसाध्यत्वमादाय · साध्य. पदार्थो विवक्षितः । यद्वक्ष्यतीति । तथा चैतन्मतेनैव तत्साधनादि त्यर्थः । ननु तत्र शक्तिसाधनमेवोक्तमतस्तमपि व्याचष्टं । भशक्ताविति । द्वितीये सङ्गमयति । भेदोपि चति । तृतीयवितर्क सङ्गमयति । विरोधस्त्विति । किमर्थ साधनीयोत आह । भेदसियनुगुण इति । तथा च प्रकृतोपयुक्ततया तस्य साध्यत्वमवश्यमिति भावः । करणा: करणरूपशक्त्यशक्त्योर्विरोधविधया कथं प्रसङ्गविपर्यययोरिष्टयम, तदविरोधेपि तयारक्षतेः, सामर्थ्यासामर्थ्ययोर्विरोधस्य तदुपजीव्यः (१) तर्हि दोष एव कश्चिद-पुण० पु० पा० । (२) तथा च बीजदेशादन्यो देशो यदि भवेत् तदा तत्राजनननिबन्धनमसामर्थ्यमापयेत, अस्माकं तु सर्वत्र देशे समर्थमेव बीजमिति न विरुद्धधर्माध्यासः, अथ वा बीजदेश एवं यदि कश्चिद्भवेत् तदा तत्र जनननिबन्धनं सामर्थ्यमादाय विरुद्धधर्माध्यासो भवेत् , भस्माकं तु सर्वत्र देशेऽसमर्थमेव बीज मिति न विरुद्धधर्माध्यास इत्याशयः ।।
(३) सामर्थ्यस्य भेदस्य विरोधस्य च प्रसङ्गविपर्ययासाध्यत्वादाह । साध्य इति ।
(1) विरुद्धधर्मसंसर्गात् , तद्देशसामर्थ्यदेशान्तरासामर्थ्यरूपात, कारिणोपि, एकदेशकार्यकारिणोपि कार्य प्रति सामर्थ्य नौपेयात् , नाभ्युपगच्छेत् तदा, तम् , वादिनं, प्रति, तदपि, सामर्थ्यमपि, तत्र स्वरसमाह । यदिति ।
(५) साम्यमूलभित्रासामर्थ्यस्य- इत्यादर्शपुस्तके पाठः ।