________________
१५८ :
'आत्मतस्वषिषेकः
कल्पलता
9
त, यदि वा देशनानात्वेऽपि सर्वोदेशो बीजाधार एव स्यात् तदास्यात्, आद्ये देशाद्वैतम्, अन्त्ये कारणस्याप्येकस्यैव बीजस्य तावद्देशवृत्तितया भेदः (१) स्पादित्यर्थः । ननु क्षेत्रकुशूलाद्यात्मापि देशो ज्ञानस्वरूपमेव, बाह्यस्यास्माभिरनङ्गीकारात्, ज्ञानं चैकदेश मे वेति (२) देशभेदेन (३) सामर्थ्यासामर्थ्यापादनं मां प्रति निरवकाशमित्याह । आपद्यतामिति । ज्ञानमात्रं क्षणस्थायि न बाह्यं किञ्चिदस्तीति योगाचारनयः, तदेव नगरमित्यर्थः । भेदेन ग्राह्यग्राहकभावो नास्ति, किं तु स्वप्रकाशज्ञानमेव (४) जगदिति योगाचारम ताश्रपणे कार्यकारणभावोऽपि स्वया नैष्टव्यः (५), इदमस्य कारणमिदमस्य कार्यमिति भेदेन ग्राह्यग्राहकभावे सत्येव सिद्ध्येत तथा च मां प्रति सामर्थ्यासामर्ध्यलक्षणविरुद्धधर्माध्यासेन (६) यत् सत् तत् क्ष. णिकमिति यत् (७) स्वया साधयितुमुपक्रान्तं, तत् सर्व भग्नमेवेत्याह । हेतुफले ति ( ८ ) । ननु हेतु (९) फलभावो (पि) मास्तु, को दोष इत्यत आह (१०) । तदपवाद इति । तर्ह्यर्थक्रियाकारित्वलक्षणेन सत्येन हेतुना यत् क्षणिकत्वं त्वया साधयितुमुपक्रान्तं तचेद्वि
,
(३) ज्ञानस्यैव देशभेदेन- पाठः ।
(१) वृत्तितयाऽभेदः - कालि० मु० पु० पा० । (२) चैकदेश एवेति - पुण० पु० पा० । ( ४ ) स्वप्रकाशात्मकं - पाठः । स्वप्रकाशज्ञानात्मकं - पुण० पु० पा० । (५) नेष्टव्यः - कलि० मु० पु० पा० । (६) धर्माध्यासे - कलि० मु० पु० पा ।
(७) धर्माध्यासेन यत् क्षणिकत्वं - पा० २० ।
(९) ननु दृष्ट- पु० पु० पा० ।
(८) फलभावर्ति-पुण० पु० पा०|
(१०) इत्याह-पा० २ ०