________________
टिप्पणीसमलङ्कतदीधिति-कल्पलताख्यटीकाद्वयविभूषितः । १९७
दीधितिः। केचित्तु विज्ञानवादिनये सर्वेषामेव कार्याणां ज्ञानाभिमदेशत्वं देशानां च ज्ञानवेनाभिन्नत्व(१)मिष्यत एवेत्याह । आपधता. मिति । तनये परेण परस्यावेदनादेकेन कार्यकारणा(२)भि. मतज्ञानयाग्रहणानं कार्यकारणभावसिद्धिरित्याह, हेतुफलेती. स्याहुः(३)॥
दीधितिटिप्पणी। मित्यनेन देशाद्वैतपक्ष एवापाद्यत इति व्याख्यातॄणां मतमाह । केचि. स्विति । विज्ञानवादिनये अभिन्नकार्यवत्वरूपं वा देशाद्वैतं परस्परा. भेदो वा, उभयमपीष्यत एवेत्यर्थः । ननु कथं तत्र हेतुफलभावो वैरी, एकविज्ञानेनान्यविज्ञानजननसम्भवादतः, तनय इत्यादि । तन्मते एकेन विज्ञानन स्वभिन्नाग्रहणात् कार्यकारणभावग्रहासम्भवात्, उभयग्रहण एव तद्रहणात, तथा च तदादायेत्यसकतमिति भावः । अत्र च ज्ञानत्वेनैक्ये प्रमेयत्वादिनाप्यैक्यसम्भवात् आद्यवादिनयपि देशाद्वैतापादनं कर्तु पार्यत इति व्यर्थ योगाचारानुसरणमित्यस्वरसः॥
कल्पलता।
अत्र प्रसङ्गे दोषाभिधाने कालगर्भप्रसङ्गेऽपि(४) दोषः स्यादित्यभिप्रायेणाह । न कश्चिदिति । ननु बीज. देशादन्यो देशो(५) यदि भवेत् , तदा तत्र तत्राजनननिबन्धनमसामर्थ्य(६)मापोत, तथा च सर्व(त्र) देशे समर्थमेव बीजमिति नास्माकं विरुद्धधर्माध्यास इत्यत आहातीति । यथेक एव देशो भवेत् तदैवं सम्भाव्ये.
(१)ज्ञानत्वेनाभिन्नत्व-कलि० मु० पु० पा०। (२) कार्यकरणा-कलि० मु० पु० पा०।
( ३ ) आहुरित्यरुचिबीजं तु तज्ज्ञानयत्त्वापादने तश्रेष्टापत्त्यसम्भवेन हेतुफलेत्यादिदोषान्तराभिधानमनुपयोगि । एवमेकस्य जगतीत्यादिविरोधः।-गुणानन्दः ।
(१) प्रसङ्गगाप-पुण० पु. पा०। (५) दन्योपदेशो-पुण० पु० पा० । (६) निबन्धनासामर्थ्य-पुण० पु० पा० ।