________________
-
१५६ ... आत्मतत्त्वविवेकः क्ष्याम इति चेन्न । हेतुफलभाववाद(१)वैरिणमनपोद्य तत्र प्रवेष्टुमशक्यत्वात् । तदपवादे वा सत्त्वाख्यसाधनशस्त्रसंन्यासिनस्तव बहिर्वादसङ्ग्रामभूमावपि कुतो भयम् ।
दीधितिः। एकस्मिन् ज्ञानात्मनि काले देशे वा(२) ज्ञानजननसमर्थस्य वि. ज्ञानस्य ज्ञानात्मकंषु देशान्तरंषु कालान्तरेषु च तत्मामयें तेषु(३) सर्वेषु तज्ज्ञानोत्पत्तिप्रसङ्गः, असामर्थे तु विरुद्धधर्मसंसर्गेणे. कस्यापि(४) भेदापत्तौ पूर्वोक्तन्यायेन शून्यस्वमेव स्यादिति क विज्ञानवादः । द्वितीये तु सामर्थ्यासामर्थ्य यो(५)विरुद्ध(धर्म)योरसिद्ध्या भेदासिद्धावसिद्धव्याप्तिकतया अर्थक्रियाऽकारित्वरूपतया वा सत्त्वस्य(६) क्षणिकत्वमाधनस्य परित्यागे बाह्यस्थि. राभ्युपगमेऽप्यविरोधाच्यर्थं तन्मतानुसरणमियाह । हेतुफलेति ।
दीधितिटिप्पणी । स्वादाह। भावार्थ इति । तथा चेत्यादिना एतस्यैव भावार्थतयोक्तत्वात्। शून्यत्यमेव विज्ञानशून्यत्वमेव । द्वितीये अपोद्येति पक्षे । अर्थक्रियेति। नप्रश्लेषेणाक्रियाऽकारित्वरूपतयैवेत्यर्थः। तन्मते सत्ता द्विविधा, एका सत सदित्यनुगतव्यहारस्य अनिकाऽपरा च जनकत्वरूपा । अन्यायाश्च तेन हेतूकरणात्. तथा च व्याप्त्यसिद्धिनिबन्धनं हेतुता. पच्छेदकावच्छिन्नहतोरभावनिबन्धनं वा क्षणिकत्वसाधकं सत्वं नास्तीत्यर्थः । इतरव्याख्यानं च वाकारासम्बद्धमित्युपेक्षितम् । अवि. रोधात् भवता समं(७) नैयायिकस्य विरोधाभावात् । आपद्यता. (१) वाद-कलि० मु० पु० पा०। (२) ज्ञानात्मनि देशे काल वा-पुण० पु० पा० । (३) तसामर्थेषु-काले० मु० पु. पा०(१) एकस्यापि, क्षणिकत्वेनाभिमतविज्ञानस्यापि।
(५) प्रामाणिकत्वरूप सत्त्वस्य हेतुत्वाभिप्रायेणाह । सामर्थ्यासामर्थ्ययोरिति ! तथा च सत्त्वाख्यसाधन पदं सत्याख्यव्याप्तिग्रहोपायविरुद्धधर्माध्यासपरम् । अर्थक्रियाकारित्वरूपसत्त्वस्य हेतुत्वपक्षे त्वाह । अर्थक्रियेत्यादि ।-गुणानन्दः ।
(.६) अर्थक्रियाकारित्वरूपतया वाह्यत्वस्य-कलि. मु. पु० पा० । अक्रियाकारित्वरूपसस्वस्य-पुण० पु० पा०।
(.) भवता मम---पा०२ पु० ।