________________
टिप्पणीसमलङ्कतदीधिति - कल्पलताव्यटीकाद्वयविभूषितः । १५५ आपद्येत । आपद्यताम्, तदादाय योगाचारनयनगरं प्रवे
दीधितिः । Sनादित्वमेव (१) पर्यवस्येदिति साधु क्षणिकत्वम्, असामर्थ्ये तु सामर्थ्यासामर्थ्य लक्षणविरुद्धधर्मसंसर्गाद्वीजादिव्यक्ते (२) र्भेद आ पद्येत, तथा च तस्या अपि (३) पूर्ववदेव पुनर्भेदापत्तौ बीजादिशू - न्यत्वमेवा (४) पद्येतेति भावः । भावार्थे (५) कृतनिर्भर आशङ्कते । आपद्यतामिति | आपद्यतां वाह्यशून्यत्वम् । योगाचारः विज्ञानवादी । तन्नयानुसरणं हि हेतुफलभावमुपेत्य अपोध वा । आधे दीधितिटिप्पणी । कार्यवत्त्वेति । साध्विति सोपालम्भम् । असामर्थ्ये अङ्गीक्रियमाणे तु | बीजादिशून्यत्वमिति । न च कथमेतावता शून्यत्वम्, एकदा बहुतरबीजभेदस्यैवागमनादिति वाच्यम् । एवमेकस्य जगती. त्यादिना मूलकारेण यद्वाच्यं तदेवानेन कथितम्, तच्च मूलेनैवोक्तम् । केचित्तु एकस्यैवैतत्काल वृत्तित्वपूर्व कालवृत्तित्वरूपविरुद्धधर्मवत्त्वाद्बीजत्वमेव न स्यादित्यर्थः । न च तत्र भेदोऽङ्गीकर्तव्यः तथापि तदोषात् । आपद्यतामित्यत्र देशाद्वैतं वक्तुं न पार्यते, विज्ञानवादिमतेपि विभिन्ने विज्ञाने सर्वकार्यवत्त्वरूपात. नङ्गीकारात्, अतः कारणभेदो वेत्येतत्परतया सङ्गमयति । भावार्थ इति । बीजादिरूपबाह्यशुन्यत्वस्य योगाचारमतस्य पूर्व शब्दानुक
( १ ) आपत्ता निष्टान्तरमाह । अनादित्वमेवेति । अनादित्वमित्युपलक्षणम्, अनन्तत्वमित्यपि महाप्रलयानभ्युपगमे बोध्यम् । (२) अङ्कुरकारिबीजादिव्य केरित्यर्थः । (३) भिन्नत्वेन सिद्धाया अपि । ( ४ ) बीजादेः शून्यत्वमेव, अङ्कुरायर्थक्रियाकारित्वमेव, तथा चार्थक्रियाकारित्वरूप सत्त्वतो: क्षणिकत्वसाधनस्य पक्षेऽसिद्धिरिति भावः ।
(५) बाह्यशून्यत्व इत्यर्थः । यद्यपि विज्ञाननयप्रवेशेपि विज्ञानस्य कालान्तरे देशान्तरे च सामर्थ्यमसामर्थ्यं वेत्यादिप्रसङ्गतद्विपर्ययाभ्यामापद्यत एव कालाद्वैतं देशद्रितं च, तथापि तद्देशजनकत्वाजनकत्वादिप्रसङ्गतद्विपर्ययाणां कार्यकारणभावोपजीवकत्वम् विज्ञाननये तु परेण परस्यावेदनात् स्वमात्रमन्नमूर्तिकतया इदमस्य कार्यमिदमस्य कारणमिति प्राह्मभेदोल्लेख साध्यो न कार्यकारणभावनिश्वयो न वा वस्तुतः स सम्भवी, तस्यापि ज्ञानविशेषत्वात् न च तदेवापाद्यम्, ज्ञानातपक्षे एकज्ञानविषयीकृतानां देशानामध्यभेदेनेष्टापत्तेः । नन्वेवमर्थक्रियाकारित्वरूपं सस्वमपि सनये विज्ञानस्य न स्यात् । न स्यादेव | प्रामाणिकत्वरूपस्यैव सत्त्वस्य तैरुपगमात् स्वप्रकाशतया च तस्य विज्ञानेषूपपत्तेरिति ध्येयम् ।
1
,