________________
१३० आत्मतत्वविवेकः च(१) सहकारिसमवधाने सति(२) कर्तृस्वभावत्वं भा. वस्य, तथा च तदसन्निधानेऽकरणमप्युपपद्यताम् , तथापि तज्जातीयमात्र एवेयं व्यवस्था, न त्वेकस्यां व्यक्ती, करणाकरणलक्षण(३)विरुद्धधर्मसंसर्गस्य प्रत्यक्षसिद्धतया तत्र दुर्वारत्वादिति चेन,(४)विरोधस्वरूपानवधारणात(५)।
दीधितिः। शयासादितस्वभावविशेष एवोत्पद्यमानः क्षणिको भाव(६)स्त. तत्कार्य(७) कुर्वाणः कुर्वद्रूप इत्यभिधीयते, क्षणिकत्वं च भावानां करणाकरणत्व(८)लक्षणविरुद्धधर्माध्यासात् ,लौकिकस्तु व्यवहा. रोऽनादिविकल्पवासनावशात कल्पितरेवानुगतरूपैः कार्यकारण. भावस्यापि(९) कल्पनादिति चेन्मेवम् , तादृशविरुद्धधर्माध्यासस्य निरसनीयत्वात , अपाकरणीयत्वाच विधिरूपतया प्रतिभासमानेषु सामान्यादिषु बाधकानामिति । इयम् सहकारिणा लामे करणमलामे चाकरणमिति व्यवस्था ।
दीधितिटिप्पणी। घटादिरतः स्वकारणेति । स्वकारणेन बोजेन बीज एव जनितोऽनः स्वयमपि तथेत्यर्थः । क्षणिकत्वसिचैव तव सर्वाभिमतं स्यात(१०), तदेव तु नास्तीत्याह। मैवमिति। अाकरणीयत्वाञ्चेति परान्वयि । बा. धकानाम् अतद्यावृत्तित्वसाधकरूपाणाम् । इदमः पूर्वोक्तद्वयपराशेन द्विवचननपुंसकत्तापत्तिः, अतस्तदर्थमित्यन्तर्भावेणाह । इयमिति ॥
(१) भवतु वा-इति शङ्कर मिश्रसम्मतः पाठः । (२) समवधाने-पाठः। (३) करणाकरण-पाठः । (१) चेनैवम्-पुण० पु० पा० । (५) पानवबोधात्-पाटः । पापरिज्ञानात्-पुण० पु० पा० । (६) क्षणिकोऽभाव-कलि० मु० पु० पा०। (.) स्तत्कार्य-पाठः । (८)करणाकरण-पाठः । (९) कार्यकारणरूपस्यापि-पाठः । कार्यकारणभावस्य-पाठः। (१०) वासभिमसपहे-इत्यादर्शपुस्तके पाठः ।
-
-