SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ टिप्पणी समलङ्कतदीधिति-कल्पलताव्यटीकाद्वयविभूषितः । १३१ कल्पलता । वक्ष्यमाणप्रघट्ट कार्थादुक्तप्रघट्टकत्रयस्थार्थ विवेक्तुं तत्त्रयार्थानुवादपूर्वकं प्रकान्तरमवतारयति । स्या देतदिति । माभूदिति । कुशूलस्थस्यापि बीजत्वेन सामध्यस्यैव साधनादिति भावः । अस्त्विति । तथा च कुशलस्थस्यापि सामर्थ्यमेवेति भावः । कुर्वद्रूपत्वाकुर्वदूपत्वलक्षणविरुद्धधर्माध्यासोऽपि नात्रेति (वा) भावः । भवतु वेति । तथा च क्षेपकारित्वाक्षेपकारित्वलक्षणोsपि न विरुद्धधर्माध्यास इति भावः । क्रमोऽत्र न विवक्षितः, तथा च (१) पूर्वसाधितार्थानु (२) बादमात्रमेतदिति व्युत्क्रमाभिधानदोषो नात्र । कर्तृस्वभावत्वम् जनकस्वभावत्वम् । तथापी - ति । बीजस्वजात्यवच्छिन्नं किञ्चिजनयति, (किश्चिन्न जनयति) तत्र सहकारिलाभालाभौ तन्त्रमास्ताम् (३), न त्वेकैकव्यक्तिः कदाचिज्जनिका कदाचिदजनिकेति व्यवस्था सहकारिलाभालाभतन्त्रेत्यर्थः । यद्यपि पूर्वमपि व्यक्तिमेवादाय सामर्थ्यासामर्थ्यादिकं चिन्तितं क्षणभङ्गानुकूलत्वात् तथापि व्यक्तेरेकस्याः फलोपधानानुपधानलक्षणविरुद्धधर्माध्यासः प्रस्पक्ष (४) स्वाद्दुरपह्नव इ (५)त्यभिप्रायेण शङ्केश्यपौनरुक्त्यम् ॥ " ( १ ) विवक्षितः, किं तु - पुण० पु० पा० । (२) साधितार्थवि - पुण० पु० पा० । (३) तत्र च मास्ताम् पाठः । तन्त्रम् - कलि० मु० पु० पा० । (४) प्रत्यक्ष सिद्ध - पुण० पु० पा० । (५) दुरपन्हवते - पुण० पु० पा० ।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy