________________
१३२
आत्मतत्त्वविवेकः
स खलु धर्मयोः परस्पराभावरूपत्व वा स्यात्, नित्यत्वानित्यत्ववत्, धर्मिणि तदापादकत्वं वा, शीतोष्णत्ववत, तद्वत्ता वा दण्डित्वकुण्डलित्ववत (१) ।
दीधितिः ।
सः विरोधः । इह नित्यत्वानित्यत्वे ध्वंसाप्रतियोगित्वप्रतियोगित्रे | तस्य परस्परविरहस्यापादकत्वं तद्व्याप्यतया । तद्वत्ता परस्परभेदवत्ता, अभावत्वेन भेदस्याप्यभावपदस्मारितत्वेन तदा परामर्शसम्भवात् । तद्वत्ता परम्परं परस्परात्यन्ताभाववत्ता, दण्डि स्वेन कुण्डलित्वं कुण्डलित्वे न दण्डित्वमित्यन्ये ॥
दीधितिटिप्पणी ।
"
स इत्यनेनाव्यवहितोक्तस्वरूपशब्दपरामर्शे नपुंसकता स्यादतः स इति । ध्वंसाप्रतियोगित्व विशिष्टप्रागभावाप्रतियोगित्वरूपनित्यस्वस्य निवेशे एतदभावो ध्वंसप्रतियोगित्वं प्रागभावप्रतियोगित्वं च, तथा च धर्मयोशित द्विवचनमसङ्गतम् एवं परस्परविरहरूपत्वमित्यप्यसङ्गतम्, ध्वंसप्रतियोगित्वत्वाद्यवच्छिन्नाभावानात्मकत्वान्नित्यत्वस्येत्यत आह । इहेति । प्रागभावप्रतियोगित्वं तु न निवेशितम्, प्रागभावस्य सर्वासम्मतत्वात्। भेदस्य पूर्वानुक्तत्वेन परामर्शास. म्भवादाह । अभाषत्वेनेति । करणेऽकरणात्यन्ताभावासत्त्वात् प्रकृतासङ्गतिरख्य इत्यत्रास्वरसः ॥
कल्पलता ।
स खल्विति । धर्मयोः करणाकरणयोः परस्परवि1 रहरूपत्वमित्यर्थः । नित्यत्वानित्यत्ववदिति । यद्यपि ध्वंसावच्छिन्नसत्यमनित्यत्वम् (२), न तु नित्यत्वाभाव एव, तथापि नत्रर्थसम्बन्धासम्बन्धमात्र विवयैतद्रष्टव्यम् । तदापादकत्वमिति । परस्परवि
(१) कुण्डलित्ववदिति - पुण० पु० पा० । ( २ ) वच्छिन्न सत्ताऽनित्यत्वम्-पाठः ।