________________
टिप्पणीसमलङ्कतदीधिति-कल्पलताख्यटीकाद्वयविभूषितः । १३३
कल्पलता । रहापादकत्वम । तच परस्परविरहव्याप्यतया निर्व. हति, यथा शैत्यं जले औष्ण्याभावमाक्षिपति, औ. डण्यं च तेजसि शैत्याभावमित्यर्थः । (तबत्ता धेति । ) धर्मयोः परस्परभेदमात्रं वा विरोध इत्यर्थः ॥ नप्रथमः, निर्विशेषणस्यासिद्ध:(१),यावत्सत्त्वं कि
दीधितिः। निर्विशेषणस्य कार्यविशेषानियन्त्रितस्याकरणस्य, वस्तुनि क्षणभङ्गवादिनां, असिद्धेः विरोधस्य अ(२)सिद्धत्वात् , यावत्सवं, किञ्चित्करणात् किश्चित्करणाभ्युपगमात्, अस्माकं तु त. सिद्धावपि कालभेदादेव न विरोध इति भावः । यत्वस्माकमपि यावत्सवं संयोगादि(३)जननसम्भवादिति। तदसत् । कदाचिदवयविनस्तथात्वसम्भावनायामपि गुणकर्मणोनियमात्रस्य च तदसम्भवात् । प्रक्रान्तवादीजमात्रमधिकृत्येदमिसपि कश्चित् ।
दीधितिटिप्पणी। व्याख्यानमपि करोति । निर्विशेषणस्येति । कार्यविशेषेति । सा. मान्यतोऽकरणमात्रस्येत्यर्थः । स्वमतेऽसिद्धिरेवेत्यतः,क्षणेति । असि. द्धेः अप्रसिद्धः। स्वमतेनुक्तौ न्यूनता स्यादत आह । अस्माकमिति । तत्सिद्धावपि निर्विशेषणाकरणप्रसिद्धावपि । नित्यमात्रस्येति । महाप्रलयावच्छेदेन नित्यस्य जनकत्वासम्भवात् । बीजमानेत्यादौ हेतुः, प्रक्रान्तत्वादिति । तथा चास्माकं मतेपि बीजे सदैव परमा. ण्वादिसंयोगजननसम्भवानिर्विशेषणाकरणस्य बीजेऽप्रसिद्धरिति भावः । मूले सविशेषणेत्यस्य कार्यविशषितस्येत्यर्थकतया विरोध सिद्धावपीत्यसङ्गतम्, कालामिश्रितस्य तस्यैकधर्मिण्यङ्गीकारादतः
(२) विरोधस्य अप्र पा०२ पु० ।
(१) असिद्धत्वात-फलि. मु० पु० पा०। (३) यावत्मयोगादि-पाठः।