________________
आत्मतत्वविवेकः
श्चित्करणात् । सविशेषणस्य तु ( १ ) विरोधसिद्धावव्यध्यासानुपपत्तेः । यदा यदकरणं हि तदा तत्करणस्याभावो न स्वन्यदा तत्करणस्य, न चैतयो ( २ ) रकध
१३४
दीधितिः । तत्कार्यकरणस्य तदभावस्य च परस्परविरहरूपत्वेऽपि स्वरूपतो न विरोधः, एकस्मिन् कालेऽङ्कुरकरणाकरणयोः समर्थचीजक्षणशिलाशकलात्मक देशभेदेनेव एकस्मिन् धर्मिणि कालभेदेन वृत्तेरनुभवसिद्धतया दुरपह्नवत्वात, किन्त्वेककालावच्छेदेन, न चैककालावच्छिनं तदुभयमेकत्राभ्युपगच्छाम इत्याह, सविशेषणस्येत्यादिना । सविशेषणस्य कार्यविशेषविशेषितस्य एककालाव च्छेदेन विरोधसिद्धावपि अध्यासस्य एकधर्मि ( ३ ) समावेशस्थमनुपपत्तेः, अनभ्युपगमात् । यदा हि यत्र यत्कार्याकरणं तदा तत्कार्यकरणस्य तत्राभावः तद्धर्मिवृत्तित्वाभावः, न त्वन्यदा सत्कार्यकरणस्य तद्धर्मवृत्तित्वाभावः, न चैतयोरेककालावच्छिदीधितिटिप्पणी ।
कालमिश्रणेन भावं पूरयति । तत्कार्यकरणस्येत्यादि । मूले, अध्यासेति । एतादृशविरुद्ध धर्माध्यासस्य त्वन्मतेप्यनुपपत्तेरित्यर्थः । उपवर्णितभावार्थस्यैव किञ्चित्पूरणेन पदतो लाभं दर्शयति । सविशेषणस्येति । इदमध्यासस्येत्यनेनाप्यभ्वयि। अनुपपत्ती हेतु:, अनभ्यु. पगमात् । यदा हीति ( ४ ) मूले यदेत्यस्यानुयोगिनि दाने यदा यंत्र यदकरणं तदा तत्र तत्करणस्याभाव इत्यर्थकतायां साध्याविशेषः । अथ प्रतियोगिनि यदेत्यस्य दानम्, तथा च यत्र यत्कालीनकरणस्याभावः तत्र तत्कालीनकरणस्याभावः, यन्तदर्थयोर्भेदादेव साध्यभेद इति चेत तदा न त्वन्यदेत्यसङ्गतम्, तत्रान्यकालीनतत्करणाभावस्यासम्भवात्, करणसामान्याभावकाल एव तत्स (१) सविशेषणस्य च पाठः । (२) न चानयोः पाठः । (३) एकत्र-पाठः । ( ४ ) यदा हि यदकरणमिति मूलपाठाभिप्रायेणेदम् ।
●