________________
टिप्पणीसमलङ्कतदीधिति-कल्पलताण्यटीकाद्वयविभूषितः । १३५ मिसमावेशमातिष्ठामहे ।
दीधितिः । प्रतत्कार्यकरणाकरणयोरिति(१)॥
दीधितिटिप्पणी । म्भवात् , एवं प्रकृतासिद्धिश्च, करणप्रतिक्षेपकत्वालब्धेः, संयोग. तदभावन्यायेनापि सम्भवात्, अतो वृत्तित्वाभावकथनपरतयाह । यदेत्यादि । इतिः वाक्यसमाप्तौ। अन्यथा(२) न चैतयोरित्यस्यागृहृद्याख्याऽसङ्गतेः॥
कल्पलता।
निर्विशेषणस्येति । अकरणत्वमात्रस्य बीजव्या क्तावसिद्धेः । तदेवाह । यावदिति। अन्ततः संयो. गादेरपि(३) जननादित्यर्थः । सविशेषणस्यति । यदा तदेतिविशेषणसहितस्येत्यर्थः । तदेवाह । यदेति । अनयोर्विरोधसम्भवप्यध्यासो नास्तीत्याह । न घे. ति । न हि यद्वीजं यदैवाङ्करं करोति तदैव न करो. तीत्यभ्युपगच्छाम इत्यर्थः ॥
न द्वितीयः, भावाभावव्यतिरिक्तयोः करणाकरण
दीधितिः। भावाभावेति । अभेदे आक्षेप्याक्षेपकभावानुपपत्तेरिति
दीधितिटिप्पणी। असिद्धः को दोष आगत इत्याह। अभेदेति । सहकारिपर्यन्तस्य (१) करणाकरणयोः पाठः। परन्तु टिप्पणीकृतामनभिमतः, तत्र इतिशब्दस्यापि म्याख्यानदर्शनात् । ' (२) अन्यथा, इतिशब्दस्य मूलस्थप्रतीकधोरणार्थकत्ये, न चैतयोरित्यस्यागृहपाख्याऽसा. तेः, इतिशब्दघटितप्रतीकमघृत्वैव न चैतयोरितिमूलोपरि क्रियमाणाया न चैतयोरित्यादिकाया दीधितिव्याख्याया असङ्गत्यापरित्यर्थः। (३)संयोगादीनामपि-पुण. पु० पा०।