SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आत्मतत्वविवेकः । - - योरसिद्धे, व्यापारापरव्यपदेशसहकारिभावाभावौ हि करणाकरणे कार्यभावाभावौ वेति(१)। अतिरेकसिद्धावपि स्वकाल एवं स्वाभावप्रतिक्षेपवत अकरणाभावमाक्षिपेत् करणं न त्वन्यदा । न हि यो यदा नास्ति स तदा स्वाभावं प्रति क्षेप्तुमर्ह (ती)ति, विरोध्यभावं वा आक्षेप्तम्(२)। तथा(३) सति न कदापि तन्न स्यात् न वा(४) कदापि तद्विरोधी भवेदिति ना दीधीतिः। भावः । व्यापारापरव्यपदेशः सहकारी(५) चरमो व्यापारः । हि यस्मात् । एतावेतौ वा परस्परविरहरूपावेव करणाकरणे । करणाभावातिरिक्ताकरणाभ्युपगमेपि दोषमाह । अतिरेकेति.। अन्यदा स्वानाधिकरणकाले। प्रति क्षेप्तुम् प्रतिक्षपात्मीभवितुम्(६) अभावाभावस्य प्रतियोगिरूपत्वात् । विरोध्यभावम् विरोधिनोऽभावम् । तथा सतीति । स्वासत्वकालेऽपि स्वाभावमति. क्षेपे तदापि तदभावो न स्यात् , स एव स्यात् , स्वासत्वकाले. ऽपि च स्वविरोधिनोऽभावाक्षेपे तदानीमपि तद्विरोधी न स्या. दीधितिटिप्पणी। विग्रहवाक्यप्रदर्शनपूर्वकमर्थमाह । व्यापारेति । एतत्पड्यर्थमाह । हीति । यस्मात् सहकारिभावाभावौ कार्यभावाभावौ वा करणाकरणे अतः कारणाद्भावाभावव्यतिरिक्तयोस्तयोरसिद्धिरित्यर्थः । प्रतिक्षे. पात्मीभवितुमिति । न चैवं स्वाभावमित्यस्य कर्मतानुपपत्तिः, तदा प्रतीत्यस्य कर्मप्रवचनीयार्थकत्वात् । सक्षिप्य पतिदयस्यार्थमाह । तथा सतीति । तत्पदेन यच्छब्दोपन्यस्तस्यैव विषयीकर्तुमुचिः तत्वादाह । ल एवेति । ननु स्वाधिकरण तदभावस्याक्षेपे स्वा. (१) वा-पाठः। (२) विरोध्यमावं चाक्षेप्तुम- पाठः । (६) तथा च-पाठः । ( ४ ) न च--पुण० पु० पा० । (५) व्यपदेशसहकारी-पा०पु०॥ (६) प्रतिक्षेपार्थीभवितुम्-पाठः । प्रतिक्षपात्मीभवितुमित्यर्थः-पुण० पु० पा० ।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy