Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
आत्मतत्वविवेकः ।
-
-
योरसिद्धे, व्यापारापरव्यपदेशसहकारिभावाभावौ हि करणाकरणे कार्यभावाभावौ वेति(१)। अतिरेकसिद्धावपि स्वकाल एवं स्वाभावप्रतिक्षेपवत अकरणाभावमाक्षिपेत् करणं न त्वन्यदा । न हि यो यदा नास्ति स तदा स्वाभावं प्रति क्षेप्तुमर्ह (ती)ति, विरोध्यभावं वा आक्षेप्तम्(२)। तथा(३) सति न कदापि तन्न स्यात् न वा(४) कदापि तद्विरोधी भवेदिति ना
दीधीतिः। भावः । व्यापारापरव्यपदेशः सहकारी(५) चरमो व्यापारः । हि यस्मात् । एतावेतौ वा परस्परविरहरूपावेव करणाकरणे । करणाभावातिरिक्ताकरणाभ्युपगमेपि दोषमाह । अतिरेकेति.। अन्यदा स्वानाधिकरणकाले। प्रति क्षेप्तुम् प्रतिक्षपात्मीभवितुम्(६) अभावाभावस्य प्रतियोगिरूपत्वात् । विरोध्यभावम् विरोधिनोऽभावम् । तथा सतीति । स्वासत्वकालेऽपि स्वाभावमति. क्षेपे तदापि तदभावो न स्यात् , स एव स्यात् , स्वासत्वकाले. ऽपि च स्वविरोधिनोऽभावाक्षेपे तदानीमपि तद्विरोधी न स्या.
दीधितिटिप्पणी। विग्रहवाक्यप्रदर्शनपूर्वकमर्थमाह । व्यापारेति । एतत्पड्यर्थमाह । हीति । यस्मात् सहकारिभावाभावौ कार्यभावाभावौ वा करणाकरणे अतः कारणाद्भावाभावव्यतिरिक्तयोस्तयोरसिद्धिरित्यर्थः । प्रतिक्षे. पात्मीभवितुमिति । न चैवं स्वाभावमित्यस्य कर्मतानुपपत्तिः, तदा प्रतीत्यस्य कर्मप्रवचनीयार्थकत्वात् । सक्षिप्य पतिदयस्यार्थमाह । तथा सतीति । तत्पदेन यच्छब्दोपन्यस्तस्यैव विषयीकर्तुमुचिः तत्वादाह । ल एवेति । ननु स्वाधिकरण तदभावस्याक्षेपे स्वा. (१) वा-पाठः। (२) विरोध्यमावं चाक्षेप्तुम- पाठः । (६) तथा च-पाठः । ( ४ ) न च--पुण० पु० पा० । (५) व्यपदेशसहकारी-पा०पु०॥ (६) प्रतिक्षेपार्थीभवितुम्-पाठः । प्रतिक्षपात्मीभवितुमित्यर्थः-पुण० पु० पा० ।

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217