Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 8
________________ (४) रीकरणाहत्वाद्विप्रकृष्टाः । परे कुतीर्थ्यां भवन्तं त्वामीशं माशिश्रियन् स्वामित्वेन मा प्रतिपद्यन्तां । यतो गुणेष्वसूयां दधतो गुणेषु बद्धमत्सराः । गुणेषु दोषाविष्करणं ह्यसूया । यो हि यत्र मत्सरीभवति स तदाश्रयं नानुरुध्यते न आद्रियते । यथा माधुर्यमत्सरीकरभः पुण्ड्रेक्षुकाण्डं गुणाश्रयंश्च भवान् । त. थापि त्वदाज्ञाप्रतिपत्तेरभावेऽपि लोचनानि नेत्राणि समील्य मीलितपुटीकृत्य सत्यं युक्तियुक्तं नयवम न्यायमार्ग विचारयन्तां विमर्श विषयीकुर्वन्तु ॥ ३ ॥ अथ यथावन्नयवर्त्मविचारमेव प्रपचयितुं पराभिप्रेततस्वानां प्रामाण्य निराकुर्वन्नादितस्तावत्काव्यषट्केनोलुक्य मताभिमततत्वानि दूषयितुकामास्तदन्तवैशेषिकपातिनी प्र. थमतरं सामान्यविशेषौ दूषयन्नाह स्वतोऽनुवृत्ति व्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः ॥ परात्मतत्त्वादतथात्मतत्त्वाद्, द्वयं वदन्तो कुशलास्स्खलन्ति ॥ ४ ॥ व्याख्या-स्वत्त इति,, अभवन् भवन्ति भविष्यन्ति चेति भावाः पदार्थाः आत्मपुद्गलादयस्ते स्वत इति । सर्वे हि वाक्यं सावधारणमामनन्तीति स्व.

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46