Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
तत्वे युक्त्या घटमानेऽपि परे तीर्थान्तरीयाः ज्ञानं कर्मतापनमनात्मनिष्ठं न विद्यते आत्मन: स्वस्य निष्ठानिश्चयो यस्य तदनात्मनिष्ठं अस्वसंविदितमित्यर्थः प्रपेदिरे प्रपन्नाः । कुत इत्याह--परेभ्यो भयतः । पूर्वपक्षवादिभ्यः सकाशात् ज्ञानस्य स्वसंविदितत्वं नोपपद्यते स्वात्मनि क्रियाविरोधादित्युपालम्भसम्भा. वनासम्भवं यद्भयं तस्मात्तदाश्रित्येत्यर्थः ॥ १२॥
अथ ये ब्रह्माद्वैतवादिनोऽपरपर्यायमायावशात्प्रतिभासमानत्वेन विश्वत्रयवर्तिवस्तुप्रपञ्चत पारमार्थिकं समर्थयन्ते । तन्मतमुपहसन्नाह- . माया सती चेवयतत्वसिद्धि
रथासती हन्त कुतः प्रपञ्चः ॥ मायैव चेदर्थसहा च तत्किं,
माता च वन्ध्या च भवत्परेषाम् ॥१६॥ व्याख्या-मायेति,, तै वादिभि माया अविद्या प्रपंचहेतुः कल्पिता सा सद्रपाऽसदूपा वा । सती सदुपाचे त्तदा इयतत्त्वसिद्धिः द्वौ अवयवौ यस्य तह. यं तथाविधं यत्तत्त्वं परमार्थ स्तस्यसिद्धिः । एवं सति एकं ब्रह्म द्वितीया माथा । तदा अद्वैतवादस्य मूले . कुठारो निहितः । अथेति पक्षान्तरे । यदि असतीखपु

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46