Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
(२८)
विनाऽनुमानेन पराभिसन्धिमसंविदानस्य तु नास्तिकस्प ॥ न साम्प्रतं वक्तुमपि क्व चेष्ट
क्व दृष्टमात्रं च हहा प्रमादः ॥ २० ॥
व्याख्या - विनेति, प्रत्यक्षमेवैकं प्रमाणमिति मन्यते चावकः । अनुमानेन लैङ्गिकप्रमाणेन विना पराभिसन्धिं पराभिप्रायमसंविदानस्य न सम्यकू जानानस्य नास्तिकस्य लोकायतिकस्य वक्तुमपि न साम्प्रतं वचनमप्युच्चारयितुं नोचितम् । ततस्तूष्णीभाव एवाऽस्य श्रेयान् । कथं क्वेति महदन्तरे । चेष्टा इङ्गितं अनुमेयस्य लिङ्गम् । क्व च दृष्टमात्रं प्रत्यक्षमात्रं । अ तः हहा इति खेदे | अहो तस्य प्रमादः प्रमत्तता, यदनु भूयमानमप्यनुमानं प्रत्यक्षमात्राङ्गीकारेणापन्हुते ||२०|| अथानेकान्तवादं ये मन्यन्ते तेषामुन्मत्ततामाविर्भावय
ब्राह
प्रतिक्षणोत्पादविनाशयोगिस्थिरैकमध्यक्षमपीक्षमाणः ॥ जिन ! स्वदाज्ञामवमन्यते यः
स वातकी नाथ पिशाचकी वा ॥ २१॥

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46