Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
(३९) यथा परे मत्सरिणः प्रवादाः ॥ नया न शेषा न विशेषमिच्छन्,
न पक्षपाती समयस्तथा ते ॥ ३० ॥ व्याख्या-अन्योन्येति,, यथा येन प्रकारेण परे भवच्छासनादन्ये प्रवादा दर्शनानि मत्सरिणः, अ. तिशयेन धोकषायकलुषितान्तःकरणाः सन्तः प्रवर्तन्ते । कस्मात् । अन्येति । पक्षःस्वसाधनोपन्यासः, प्रतिपक्षः तबिरोधी तस्य भावः प्रतिपक्षभावः अन्योन्यं परस्परं यः पक्षप्रतिपक्षभावस्तस्मात् । तथा तेन प्रकारेण ते तत्र समयः सिद्धान्तः न पक्षगती नैकप. क्षानुरागी । मत्सरित्वाऽभावमेव विशेषणद्वारेण स. मर्थयति । नयेति, अशेषान् समस्तानैगमादीन् अ. विशेष निर्विशेषं यथास्यात्तथा इच्छन्नाकाङ्क्षन् सर्वनयात्मकत्वादनेकान्तवादस्येत्यर्थः ॥ ३०॥
इत्थंकार कतिपयपदार्थविवेचनद्वारेण स्वामिनो यथार्थवादाख्यं गुणमभिष्टुत्य समग्रवचनातिशयव्यावर्णने स्वस्याऽसामर्थ्य दृष्टान्तपूर्वकमुपदर्शयन्नौद्धत्यपरिहाराय भजयन्तरतिरोहितं स्वाभिधानं च प्रकाशय निगमनमाहवाग्वैभवं ते निखिलं विवेक्तु
माशास्महे चेन्महनीयमुख्य ?॥

Page Navigation
1 ... 41 42 43 44 45 46