Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
Catalog link: https://jainqq.org/explore/022430/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अहेम् । अनुगामायाणकारी राई नियाणिपादोया नमः कलिकामयज्ञ श्रीमान हेमचंद्र सूरीश्वर निमिता ॥ ॥ अन्ययोगव्यवच्छेदहै द्वात्रिंशिका ॥ ( स्याहादमञ्जयुद्धतावचूरिसहिता ) Name अनुयोगाचार्य पंन्यासश्रीहर्ष विजयगणि शिष्य |मुनि मानविजयन संशोधिता। अमदास्य नारीधरायोटिका निवासी विचार हा विधया जेकर छाई इन्यनस्या द्रव्य स्वशारयेन । श्री सत्यविजयजैनग्रन्थमालायाः माननीयकार्यवाहक श्रेष्ठिवर्य बालाभाइ मूलचंद्र-अमदावाद. त: ४८३, अभूमध. सन् १९२४ Page #2 -------------------------------------------------------------------------- ________________ आ चोपडीश्रीजैन एडवोकेट श्रीन्टींग प्रेसमां शा. चीमनलाल गोकलदासे छापी, बीकांगपाडी-अमदावाद, Page #3 -------------------------------------------------------------------------- ________________ जगत्पूज्य विशुद्ध चारित्रचूडामणि तपोगच्छालङ्कार भट्टारक श्री १००८ दीक्षा १९४९ अशाड सुद ११, जन्म सं. १९३० पोस सुद ११, आचार्यश्री विजयनीतिमुरीश्वरजी महाराज आचार्यपद सं १९७६ मार्गशीर्ष शुक्ल ५. गणिपट १९६१ मागशर सुद ५, पन्यासपद १९६२ कारतक वद ११, Page #4 --------------------------------------------------------------------------  Page #5 -------------------------------------------------------------------------- ________________ श्रीसत्यविजयजैन ग्रन्थमाला नं० ४३ ॥ अर्हम् || ॥ पूज्यपाद आचार्यश्री विजयनीति सूरीश्वर पादपद्मेभ्यो नमः ॥ So कलिकालसर्वज्ञ श्रीमान् हेमचन्द्रसूरीश्वरविरचिता अन्ययोगव्यवच्छेदद्वात्रिंशिका ( स्वादमञ्जर्युद्धृतावचूरीसहिता ) <4(0)8+4 ॥ मङ्गलाचरणम् ॥ यस्य ज्ञानमनन्तवस्तुविषयं यः पूज्यते देवते-नित्यं यस्य वचो न दुर्नयकृताः कोलाहलैलुप्यते ॥ राग षमुखद्विषां च परिषत्क्षिप्ता क्षणायेन सा स श्रीवरप्रभुर्विधूत कलुषां बुद्धिं विधत्तां मम ॥ १ ॥ अनन्तविज्ञानमतीतदोषमबाध्यसिद्धान्तममर्त्यपूज्यम् ॥ श्रीवर्द्धमानं जिनमाप्तमुख्यं, स्वयंभुवं स्तोतुमहं यतिष्ये ॥ २ ॥ Page #6 -------------------------------------------------------------------------- ________________ व्याख्या-श्रीवर्धमानं जिनमहं स्तोतु यतिष्ये इ. ति क्रियासंबन्धः। किं विशिष्ट अनन्तमप्रतिपातिविः शिष्टं सर्वद्रव्यपर्यायविषयत्वेनोत्कृष्टं ज्ञानं केवलाख्यं विज्ञानं ततोऽनन्तं विज्ञानं यस्य सोऽनन्तविज्ञानस्तम् । तथाऽतीतातिक्रान्ता दोषा रागादयो यस्मात्स तथा तं । तथाऽबाध्यः परैर्बाधितुमशक्यः सिध्धान्तः स्याबादश्रुतलक्षणो यस्य तथा तं । तथाऽमा देवासेषामपि पूज्यमाराध्यं । तथाऽऽप्त मुख्यं आप्तिहि रागद्वेषमोहानामेकान्तिकः क्षयः । सा येषामस्ति ते आप्ताः । अभ्रादित्वान्मत्वर्थीयोऽप्रत्ययः। तेषां म. ध्ये मुखमिव सर्वाङ्गानां प्रधानत्वेन मुख्य । शाखादेयः। पुनः स्वयमात्मनव परोपदेशनिरपेक्षतयाऽवगततत्वो भवतीति स्वयंभूः स्वयंसंबुद्धः। एवंविधं चरमजिनेन्द्रं स्तोतुं स्तुतिविषयीकर्तुं अहं यतिष्ये यत्नं फरिष्यामि ॥१॥ अथ स्तुतिकारखिजगद्गुरोनिःशेषगुणस्तुतिश्रद्धालुरपि सद्भूतवस्तुधादित्वाख्यं गुणविशेषमेव वर्णयितुमा. स्मनोऽभिप्रायमाविष्कुर्वन्नोह श्रयं जनो नाथ तव स्तवाय, गुणान्तरेभ्यः स्पृहयाकुरेव ॥ Page #7 -------------------------------------------------------------------------- ________________ विगाहतां किन्तु यथार्थवाद मेकं परीक्षाविधिदुर्विदग्धः ॥३॥ व्याख्या-अयमिति, हे नाथ अयं मल्लक्षणो जनस्तव गुणान्तरेभ्यो यथार्थवादव्यतिरिक्तेभ्योऽनन्य. साधारणशारीरलक्षणादिभ्यः स्पृहयालुरेव । किमर्थ स्तवाय स्तुतिकरणायेति । तादयें चतुर्थी । किन्त्वि. त्यभ्युपगमविशेषद्योतने निपातः । एकमेकमेव य. थार्थवादं यथावस्थितवस्तुतत्त्वप्रख्यापनाख्यं त्वदीयं गुणमयं जनो विगाहताम् । स्तुतिक्रियया समन्ताद् व्याप्नोतु यतोऽयं जनः परीक्षाविधिदुर्विदग्धः पण्डितं मन्ये इति यावत् ॥ २॥ ___ अथ ये कुतीर्थ्याः कुशास्त्रवासनावासितस्वान्ततया त्रिभुवनस्वामिनं स्वामित्वेनाप्रतिपन्नास्तानपि तत्वविचारणां प्रति शिक्षयम्नाह गुणेष्वसूयां दधतः परेऽमी, · माशिभियन्नाम भवन्तमीशम् ॥ तथाऽपि सम्मील्य विलोचनानि, विचारयन्तां नयवर्त्म सत्यम् ॥३॥ व्याख्या-गुणेविति, अमी इति । अदसस्तु वि.. प्रष्टे इति वचनात् तत्त्वातत्वविमर्शवाह्यतया दू. Page #8 -------------------------------------------------------------------------- ________________ (४) रीकरणाहत्वाद्विप्रकृष्टाः । परे कुतीर्थ्यां भवन्तं त्वामीशं माशिश्रियन् स्वामित्वेन मा प्रतिपद्यन्तां । यतो गुणेष्वसूयां दधतो गुणेषु बद्धमत्सराः । गुणेषु दोषाविष्करणं ह्यसूया । यो हि यत्र मत्सरीभवति स तदाश्रयं नानुरुध्यते न आद्रियते । यथा माधुर्यमत्सरीकरभः पुण्ड्रेक्षुकाण्डं गुणाश्रयंश्च भवान् । त. थापि त्वदाज्ञाप्रतिपत्तेरभावेऽपि लोचनानि नेत्राणि समील्य मीलितपुटीकृत्य सत्यं युक्तियुक्तं नयवम न्यायमार्ग विचारयन्तां विमर्श विषयीकुर्वन्तु ॥ ३ ॥ अथ यथावन्नयवर्त्मविचारमेव प्रपचयितुं पराभिप्रेततस्वानां प्रामाण्य निराकुर्वन्नादितस्तावत्काव्यषट्केनोलुक्य मताभिमततत्वानि दूषयितुकामास्तदन्तवैशेषिकपातिनी प्र. थमतरं सामान्यविशेषौ दूषयन्नाह स्वतोऽनुवृत्ति व्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः ॥ परात्मतत्त्वादतथात्मतत्त्वाद्, द्वयं वदन्तो कुशलास्स्खलन्ति ॥ ४ ॥ व्याख्या-स्वत्त इति,, अभवन् भवन्ति भविष्यन्ति चेति भावाः पदार्थाः आत्मपुद्गलादयस्ते स्वत इति । सर्वे हि वाक्यं सावधारणमामनन्तीति स्व. Page #9 -------------------------------------------------------------------------- ________________ त एवात्मीयस्वरूपादेवानुवृत्ति व्यावृत्तिभाजः । एकाकारा प्रतीतिरेकशब्दवाच्यता चानुवृत्तिः, व्यति. पृत्तिावृत्तिर्विजातीयेभ्यः सर्वथा व्यवच्छेदस्ते उभे अपि संवालते भजन्ते आश्रयन्तीति अनुवृत्तिव्या. त्तिभाजः सामान्यविशेषोभयात्मका इत्यर्थः। अस्यैवार्थस्य व्यतिरेकमाह । न भावान्तरनेयरूपा इति । नेति निषेधे । भावान्तराभ्यां पराभिमताभ्यां द्रव्यगुणकर्मसमवायेभ्यः पदार्थान्तराभ्यां भावव्यतिरिक्तसामान्यविशेषाभ्यां नेयं प्रतीतिविषयं प्रापणीयं रूपं यथासंख्यमनुवृत्तिव्यावृत्तिलक्षणं स्वरूपं येषां ते तथोक्ताः स्वभावो ह्ययं सर्वभावानां यदनुवृत्तिव्यावृत्तिप्रत्ययौ स्वत एवं जनयन्ति । तथा हि-घट एव तावत् पृथुबुध्नोदराद्याकारवान् प्रतीतिविषयीभवन् सन् अन्यानपि तदाकृतिभृतः पदार्थान् घटरूपतया घटैकशब्दवाच्यतया सजातीयेभ्यश्च प्रत्यायन् सामान्याख्यां लभते । स एव चेतरेभ्यः सजातीयविजा. तीयेभ्यो द्रव्यक्षेत्रकालभावैरात्मानं व्यावतयन्विशेषव्यपदेशमश्नुते इति । तदेवं सामान्यविशेषयोः स्वतत्त्वं यथावदनवबुद्धयमाना अकुशला अतत्त्वा. भिनिविष्टदृष्टयस्तीर्थान्तरीयाः स्खलन्ति न्यायमार्माद् भ्रश्यन्ति निरुत्तरीभवन्ति इत्यर्थः । किं कुर्वाणा: अयमनुवृत्तिव्यावृत्तिलक्षणं प्रत्ययवयं वदन्तः। कस्मा Page #10 -------------------------------------------------------------------------- ________________ (६) देतत्प्रत्ययद्वयं वदन्त इत्याह-परात्मतत्वात् परो प. दार्थेभ्यो व्यतिरिक्तत्वादन्यौ परस्परनिरपेक्षी यो सामान्यविशेषौ तयोयंदात्मतत्त्वं स्वरूपमनुवृत्तिव्यावृत्तिलक्षण तस्मातदाश्रित्येत्ययः । 'गम्ययपः कर्माधारे' इत्यनेन पंचमी। कथंभूतात्परात्मतत्त्वात् । अतथात्मतत्वात् । यथा येनैकान्तभेदलक्षणेन प्रकारेण परैः कल्पितं न तथा तेन प्रकारेणात्मतवं स्वरूपं यस्य तत्तथा तस्मात् ॥ ४॥ अय तदभिमतावेकान्तनित्यानित्यपक्षी दूषयन्नाहआदीपमाव्योमसमस्वभावं स्याहादमुद्रानतिभेदि वस्तु । तन्नित्यमेवैकमनित्यमन्य दिति स्वदाज्ञाद्विषतां प्रलापाः ॥५॥ व्याख्या- आदोपमिति,, दीपादारभ्य आव्योम मर्यादीकृत्य सर्व वस्तु पदार्थस्वरूपं समस्वभावं समस्तुल्यः स्वभावः स्वरूपं यस्य तत्तथा । किंच वस्तुन: स्वरूपं द्रव्यपर्यायात्मकत्वमिति बमः । समस्वभावत्वं कुत इति विशेषगद्वारेण हेतुमाह । स्यावादमुद्राग्नतिभेदि स्यादित्यव्ययमनेकान्तद्योतकम् । ततः स्या Page #11 -------------------------------------------------------------------------- ________________ (७) द्वादोऽनेकान्तवादो नित्यानित्यांचनेकधर्मशवलेकवस्त्वभ्युपगम इति यावत् । तस्य मुद्रा मर्यादा तो नातिभिनत्तिना तिक्रामतीति स्याद्वादमुद्रानतिभेदि। यथा हि- न्यायैकनिष्ठे राजनि राज्यश्रियं शा. सति सति सर्वाः प्रजास्तन्मुद्रा नातिवर्तितुमीशते। तदतिक्रमे तासां सर्वार्थहानिभावात् । एवं विजयिनि निष्कण्टके स्याद्वादमहानरेन्द्र तदीयमुद्रा सर्वेऽपि पदार्था नातिकामन्ति । तदुल्लंघने तेषां स्वरूपव्यवस्थाहानिप्रसक्तेः । सर्ववस्तुनां समस्वभावत्वकथनं च पराभिष्टस्यैकं वस्तु व्योमादिनित्यमेवान्यच्च प्रदीपाद्यनित्यमेवेति, वादस्य प्रतिक्षेपबीजं । सर्वे हि भावा द्रव्याथिकनयापेक्षया नित्याः, पर्यायार्थिकनयादेशात्पुनरनित्याः । एवं चोत्पादव्ययध्रौव्यात्मकत्वे सर्वभावानां सिद्धेऽपि तबस्तु एकं आकाशात्मादिकं नित्यमेव, अन्यच्च प्रदीपघटादिकमनित्यमेवेत्येवकारोऽत्रापि सम्बध्यते ।इत्थं हि दुर्नयवादापत्तिः । अनंतधर्मात्मके वस्तुनि स्वाभिप्रेतनित्यत्वादिधर्मसमर्थनप्रवणाः। शेषधर्मतिरस्कारेण प्रवर्तमाना दुर्नया इति तल्लक्षणात् इत्यनेनोल्लेखेन त्वदाज्ञाद्विषतां भवत्प्रणीतशासनविरोधिनां प्रलापा प्रलपितान्यस. म्बद्धवाक्यानीति यावत् ॥ ५॥ Page #12 -------------------------------------------------------------------------- ________________ (८) . अथ तदभिमतमीश्वरस्य जगत्कर्तृत्वाभ्युपगमं मिथ्याभि. निवेशरूपं निरूपयन्नाह • कत्ताऽस्ति कश्चिजगतः स चैकः, स सर्वगः स स्ववशः स नित्यः॥ इमाः कुवेहाकविडम्बनाः स्यु स्तेषां न येषामनुशासकस्त्वम् ॥६॥ घ्याख्या कर्त्तति,, जगतः प्रत्यक्षादिप्रमाणोप. लक्ष्यमाणचराचररूपस्य विश्वत्रयस्य कश्चिदनिर्वचनीयस्वरूपः पुरुषविशेषः कर्ता स्रष्टाऽस्ति विद्यते । तेषां प्रमाणानि उर्वोपर्वततर्वादिकं सर्व बुद्धिमत्कत के कार्यत्यात । यद्यत्कार्य तत्तत्सर्व बुद्धिमत्कतकं यथा घटस्तथा चेदं तस्माद् व्यतिरेके व्योमादि ।यश्च बुद्धिमांस्तकर्ता स भगवानीश्वर एवेति । स चैकः च पुनरर्थे । स - पुनः पुरुषविशेष एकोऽद्वितीयः । बहूनां हि विश्वविधातृत्वस्वीकारे परस्परविमतिसंभावनाया अनि.. वार्थत्वादेकैकस्य वस्तुनोऽन्यान्यरूपतया निर्माणे स. वमसमंजसमापद्यतेति । तथासर्वगः सर्वत्र गच्छतीति सर्वगः सर्वव्यापी । तस्य हि प्रतिनियतदेशवत्तित्वेऽ. नियतदेशवृत्तीनां विश्वत्रयान्तर्वतिपदार्थानां यथाव. निर्माणानुपपत्तिः । कुम्भकारादिषु तथा दर्शनात् । Page #13 -------------------------------------------------------------------------- ________________ (९) अथवा सर्व गच्छति जानातीति सर्वगः सर्वज्ञः सर्वेगत्यर्थाः ज्ञानार्था इति वचनात् । सर्वज्ञत्वाभावे हि यथो. चितोपादानकारणाद्यनभिज्ञत्वादनुरूपकार्योत्पत्तिन स्या छ । तथा स स्ववशः स्वतन्त्रः। सकलप्राणिनां स्वेच्छया सुखदुःखयोरनुभावनसमर्थत्वात । पारतन्त्र्ये तु तस्य परमुखप्रेक्षितया मुख्यकर्तृत्वव्याघातादनीश्व रत्वापत्तिः। तथा स नित्यः । अपच्युतानुत्पन्नस्थिरैकरूपः । तस्य ह्यनित्यत्वे परोत्पाद्यतया कृतकत्वमाप्तिः । अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्ती कृतक इत्युच्यते । यश्चापरस्तकर्ता कल्प्यने स नित्यो ऽनित्यो वा स्यात् नित्यश्चेदधिकृतेश्वरेण किमपराड । अनित्यश्चेत्तस्याप्युत्पादकान्तरेण भाव्यं । तस्यापि नित्यानित्यकल्पनायां अनवस्थादौस्थ्यमिति । तदेवमेकत्वादिविशेषणविशिष्टो भगवानीश्वरस्त्रिजगत्कर्तति पराभ्युपगममुपदश्र्योत्तरार्दैन तस्य दुष्टत्वमाचष्टे । इमाः एता अनन्तरोक्ताः कुहेाकविडम्बनाः कुत्सिताहेवाका आग्रह विशेषा कुहे वाकाः कदाग्रहा इत्य. र्थः । ता एव विडम्बना विचारचातुरीबाद्यत्वेन ति. रस्काररूपत्वादिगोपकप्रकाराः स्युभवेयुस्तेषां प्रामाणिकापसदानां येषां हे स्वामित् त्वं नानुशासकोन शि. क्षादाता । अयमाशयः यद्यपि भगवानविशेषेण स Page #14 -------------------------------------------------------------------------- ________________ (१०) .. कलजगजन्तुजातहितावहां सर्वेभ्य एव देशनावाच. . :माचष्टे । तथापि सैव केषांचिन्निचितनिकाचितपाप... कर्मकल्मषितात्मनां रुचिरूपतया न परिणमते । अपुनबंधकादिव्यतिरिक्तत्वेनायोग्यत्वात् । अतो वस्तु वृत्त्या न तेषां भगवाननुशासक इति । यत्तावदुक्तं परैः क्षित्यादयो बुद्धिमत्कतका कार्यत्वात घटवदिति : तदयुक्तं व्याप्तेरग्रहणात्।स चायं जमन्ति सृजन सश रीरोऽशरीरो वा स्यात् । सशरीरोऽपि किमस्मदादिव: दृश्यशरीरविशिष्ट उत पिशाचादिवददृश्यशरीरविशिष्टः । प्रथमपक्षे प्रत्यक्षबाधः । तं विनापि जायमाने शक्रधनुरभ्रादौ कार्यत्वस्य दर्शनात । द्वितीयपक्षे त. स्य माहात्म्यविशेष: कारणमाहोश्विदस्मदायष्टवैगुण्यं । माहात्म्यविशेषे तस्यादृश्यशरीरत्वं प्रत्येतव्यं । तसिद्धौ माहात्म्यविशेषसिद्धिः । अशरीरश्चेत्तदा दृष्टान्तदाष्टान्तिकयोर्वैषम्य । घटादयो हि कार्यरूपाः सशरीरकका दृष्टाः। अशरीरस्य च सतस्तस्य कार्यप्रवृत्तौ कुतः सामर्थ्य आकाशादिवत् । तस्मात् सशरीराशरीरलक्षणे पक्षद्वये. ऽपि कार्यहेतोर्व्याप्त्यसिद्धिः । तस्मान्न कश्चिजगत्कतौ । एकत्वादोनि तु जगत्कर्तत्वव्यवस्थापनायानी. यमानानि तद्विशेषणानि षण्डं प्रति कामिन्या रूपसंप Page #15 -------------------------------------------------------------------------- ________________ (११) न्निरूपणप्रायाण्येव तथा सर्वगतत्वमपि तस्य नोपपन्नं । तद्धि सर्वगः शरीरात्मना ज्ञानात्मना वा स्यात् । प्रथमपक्षे तदीयेनैव देहेन जगत्रयस्य व्याप्तत्वादितर निर्मेयपदार्थानामाश्रयानवकाशः द्वितीयपक्षे तु सिद्धसाध्यता । सर्वज्ञपक्षेऽपि दोषः तस्य सार्वज्ञयं प्रत्यक्षेण परोक्षेण वा । न तावत्प्रत्यक्षेण । तस्येन्द्रियार्थं - सन्निकर्षोत्पन्नतया अतीन्द्रियार्थग्रहणासामर्थ्यात् । नापि परोक्षेण । तद्धि अनुमानं शाब्दं वा न तावदनुमानं । तस्य लिगग्रह गलिंगिलिंग संबन्धस्मरणपूर्वकत्वात् । तन्नायं सर्वज्ञः । तथा न तस्य स्ववशत्वं स हि यदि स्वाधीनः सन् विश्व विधत्ते परमकारुणिकश्च त्वया वण्यते । तत्कथं सुखितदुःखिताद्यवस्थाभेदवृन्दस्थपुटितं घटयति । अतो न स्ववशः । नित्यत्वमपि तस्य नास्ति । स खलु नित्यत्वेनैकरूपः सन् त्रिभुवनसर्गस्वभावो अतत्स्वभावो वा प्रथम विधायां जगनिर्माणात्कदाचिदपि नोपरमेत । तदुपरमे तत्स्वभाव. त्वहानिः । अतत्स्वभावपक्षे न जातु जगन्ति सृजेत् तत्स्वभावायोगात गगनवत् । अतो नास्य जगत्कर्तृ - त्वं कथमपि न सिद्ध्यति इति दिक् ॥ ६ ॥ 1 अथ चैतन्यादयो रूपादयश्च धर्मा आत्मादेर्घटादेश्व धर्मिणोऽत्यन्तं व्यतिरिक्तापि समवायसंबन्धेन सम्बद्धाः सन्तो धर्मधर्मिव्यपदेशमनुवते इति तन्मतं दूषयन्नाह - . Page #16 -------------------------------------------------------------------------- ________________ (१२) न धर्मधर्मित्वमतीव भेदे, वृत्त्याऽस्ति चेन्न त्रितयं चकास्ति ॥ इदमित्यस्ति मतिश्च वृत्तौ, न गौणभेदोऽपि च लोकवाधः ॥ ७ ॥ व्याख्या - नेति, धर्मधर्मिणोरतीव भेदे अतीवेत्यत्रेवशब्दो वाक्यालङ्कारे । तं च प्रायोऽतिशब्दात् किंवृत्तेश्च प्रयुञ्जते शाब्दिकाः । ततश्च धर्मधर्मिणोरतिभेदे एकान्तभिन्नत्वे अङ्गीक्रियमाणे धर्मधर्मित्वं न स्यात् । अस्य धर्मिणः इमे धर्माः एषां च धर्माणामयमाश्रयभूतो धर्मोत्येवं सर्वप्रसिद्धो धर्मधर्मित्र्यपदेशो न प्राप्नोति । एवमुक्ते सति परः प्रत्यवतिष्ठते । वृस्यास्तीति । अयुत सिद्धानामाधार्याधारभूतानामिह - प्रत्ययहेतुः सम्बन्धः समवायः । स च समवचनात्समवाय इति, द्रव्यगुणकर्मसामान्यविशेषेषु पंचसु पदार्थेषु वर्त्तनात वृत्तिः । तया वृत्या समवायसम्बन्धेन तयोर्धर्मधर्मिणोरितरेतर विनिलुंठितत्वेऽपि, धर्मधर्मिव्यपदेश इष्यते इति नानन्तरोक्तो दोष इति । अत्राचार्यः समाधत्ते । चेदिति यद्येवं तव मतिः सा प्रत्यक्षप्रतिक्षिप्ता । यतो न त्रितयं चकास्ति । अयं धर्मी, इमेsस्य धर्मा, अयं चैतत्सम्बन्धनिबन्धनं समवा Page #17 -------------------------------------------------------------------------- ________________ ५ इत्येतत्रितयं न चकान्ति ज्ञानविषयतया न प्रति भासते। पुनराह-इहेदमित्यस्ति मतिश्च वृत्तावितिइहेदमिति इहेदमिति आश्रयायिभावहेतुक इहप्रत्ययो वृत्तावप्यस्ति समवायसम्बन्धेऽपि विद्यते। च शब्दोऽपि शब्दार्थः तस्य च व्यवहितसम्बन्धस्तथैव व्याख्यातं न गौण इति । योऽयं भेदः स नास्ति गौ. पलक्षणाभावात् । तल्लक्षणं तु'अव्यभिचारी मुख्योऽविकलोऽसाधारणो अन्तरंगश्च । विपरीतो गौणोऽर्थः सप्ति मुख्ये धीः कथं गौणे ॥१॥ इति तस्माद्धमधर्मिणोः सम्बन्धने मुख्यः समवा. यः। अपि च लोकबाध इति । अपि चेति दूषणाभ्यु. च्चये । लोकः प्रामाणिकलोका सामान्यलोकश्च तेन बाधो विरोधो लोकबाधस्तदप्रतीतव्यवहारसाधनात् ॥ अथ सत्ताभिधानं पदार्थान्तरमात्मनश्च व्यतिरिक्तं ज्ञानाख्यं गुणं आत्मविशेषगुणोच्छेदस्वरूपां च मुक्तिमज्ञानावजीकृ. तवतः परानुपहसन्नाह - सतामपि स्यात्कचिदेव सत्ता, चैतन्यमौपाधिकमास्मनोऽन्यत् ॥ न संविदानन्दमयी च मुक्तिः, सुसूत्रमासूत्रितमत्वदीगैः ॥८॥ Page #18 -------------------------------------------------------------------------- ________________ (१४) व्याख्या - सतामिति, सतामपि सद्बुद्धिवेद्यतया साधारणानामपि षण्णां पदार्थानां मध्ये क्वचिदेव केचिदेव पदार्थेषु सत्ता सामान्ययोगः स्याद् भवेन्न सर्वेषु । तथा चैतन्यं ज्ञानमात्मनः क्षेत्रज्ञा दन्यदत्यन्तव्यतिरिक्तं । असमासकर गादत्यन्तमिति लभ्यते । औपाधिकं । उपाधेर गतमौपाधिकं । तथा मुक्तिर्मोक्षः न संविदानन्दमयी न ज्ञानसुखरूपा । संविद ज्ञानं आनन्दः सौख्यं ततो द्वन्द्वः संविदानन्दौ प्रकृतौ यस्यां सा संविदानन्दमयी । तादृशी न भवति । च श ब्दः पूर्वोक्ताभ्युपगमद्वयसमुच्चये । तदेतदभ्युपगमत्रयमित्थं समर्थयद्भिरत्वदीयैः त्वदाज्ञाबहिर्भूतः कणादमतानुगामिभिः सुसूत्र मासूत्रितं सम्यगागमः प्रपश्चि तः । अथवा सुसूत्रमिति क्रियाविशेषणं । शोभनं सूत्रं वस्तुव्यवस्था घटना विज्ञानं यत्रेवमासूत्रितं ततच्छास्त्रार्थोपनिबन्धः कृत इति हृदयम् ॥ ८ ॥ अथ ते वादिनः कायप्रमाणत्वमात्मनः स्वयं संवेद्यमानमप्यपलप्य तादृशकुशास्त्रशस्त्रसम्पर्कविनष्टसदृदृष्ट यस्तस्य विभुत्वं मन्यन्ते अतस्तत्रोपलम्भमाह - यत्रैव यो दृष्टगुणः स तत्र, कुम्भादिवन्निष्प्रतिपक्षमेतत् ॥ Page #19 -------------------------------------------------------------------------- ________________ (१५) तथापि देहाबहिरात्मतत्त्व मतत्त्ववादोपहताः पठन्ति ॥ ९ ॥ व्याख्या-योति, यत्रैव देशे या पदार्थों दृष्टगुणो द्रष्टा प्रत्यक्षादिप्रमाणतोऽनुभूता गुणाधा यस्य स तथा स पदार्थस्तत्रैव विवक्षितदेशे एवोपपद्यत इति क्रियाध्याहारो गम्यः । पूर्वस्येवकारस्यावधारणार्थस्यात्राप्यभि सम्बन्धात्तत्रैव नान्यत्रेत्यन्ययोगव्यवच्छेदः, । अमुमेवाथै दृष्टान्तेन द्रढयति । कुम्भादिवत् घटादिवत् । यथा कुम्भादेयंत्रैव देशे रूपादयो गुणा उपलभ्यन्ते तत्रैव तस्यास्तित्वं प्रतीयते नान्यत्र । एवमात्मनोऽपि गुणाश्चैतन्यादयो देह एव दृश्यन्ते न बहिः। तस्मात्. तत्प्रमाण एवायम् इति । यद्यपि पुष्पादीनामवस्थानदेशादन्यत्रापि गंधादिगुणोपलभ्यते, तथापि तेन न व्यभिचारः । तदाश्रयाहि गन्धादिपुद्गलास्तेषां च वैश्रसिक्या प्रायोगिक्या च गत्यागतिमत्वेन तदुपलम्भकघ्राणादिदेशं यावदागमनोपपत्तेरिति । अत एवाह-एतन्निष्पतिपक्ष बाधकरहितं । ननु मन्त्रादीनां भिन्नदेशस्थानामप्याकर्षणोच्चाटनादिको गुणो योजनशतादेः परतोऽपि दृश्यते इत्यस्ति बाधकमिति चेत् । मैवं । स हि न खलु मन्त्रादीनां गुणः किन्तु तदधिष्ठातृदेवतानां । तासां चाकर्षणोयोच्चाटनीयादिदे Page #20 -------------------------------------------------------------------------- ________________ (१६) शगमने कौतस्तुकोऽयमुपालंभः । न जातु गुणा गुणिनमतिरिच्यते इति । अथोत्तराई व्याख्यायते । तथापीति,, तथापि एवं निःसपत्नव्यवस्थितेऽपि तत्वेऽतस्ववादोपहताः (अनाचारः इत्यत्रैव नत्रः कुत्सात्वात् कुत्सिततस्ववादेन तदभिमताप्ताभासपुरुषविर्थशेषप्रणीतेन तत्वाभासप्ररूपणेनोपहता व्यामोहिताः देहाद् बहिः शरीरव्यतिरिक्तेऽपि देशे आत्मतत्वमास्मरूपं पठन्ति । शास्त्ररूपतया प्रणयन्ते इत्यर्थः । भावार्थस्त्वयं । आत्मा सर्वगतो न भवति । सर्वत्र तद्गुणानुपलब्धेः । यो यः सर्वत्रानुपलभ्यभानगुणः स स सर्वगतो न भवति। यथा घटस्तथा चायं तस्मात्तथा। व्यतिरेके व्योमादि न चायमसिद्धो हेतुः । कायतिरिक्तदेशे तद्गुणानां बुद्धयादीनां वादिना बा प्रतिवादिना अनभ्युपगमात् । तथा च भट्टः श्रीधरः "सर्वगतत्वेऽप्यात्मनो देहप्रदेशे ज्ञातृत्वं । नान्यत्र शरीरस्योपभोगायतनत्वात् । अन्यथा :तस्य वैयादिति ॥९॥ सांप्रतमक्षपादप्रतिपादितपदार्थानां सर्वेषां चतुर्थपुरषार्थ प्रत्यसाधकतमत्वे वाच्येपपि तदन्तःपातिनां छलजाति निग्रहस्थानानां परोपन्यासनिरासमात्रफलतया अत्यन्तमनुपादेयत्वात्तदुपदेशदातुर्वैराग्यमुपहसन्नाह Page #21 -------------------------------------------------------------------------- ________________ स्वयं विवादग्रहिले वितण्डा पाण्डित्यकण्डुलमुखे जनेऽस्मिन् ॥ मायोपदेशात्परमर्म भिन्द नहो विरक्तो मुनिरन्यदीयः ॥ १०॥ व्याख्या-स्वयमिति,, अन्यदीयो मुनिरक्षपाद ऋषिः अहो विरक्तोऽहो वैराग्यवान् ( अहो इत्युपसंगमाश्चर्य सूचयति) ( अन्यदीय इत्यत्र ईयकारके इति दोन्तः ) किंकुर्वन्नाह-परममभिन्दन, ( जातावेक वचनप्रयोगात् )परमर्माणि व्यथयन् कस्मात् मायोपदेशाद्धेतोः । मायापरवंचनं तस्या उपदेशः छलजातिनिग्रहस्थानलक्षणपदार्थत्रयमरूपणद्वारेण शिष्येभ्यः प्रतिपादनं तस्मात् ( गुणादस्त्रियां नवेत्यनेन हेतौ तृतो. या प्रसंगे पंचमी,) कस्मिन् विषये मायां अयमुपदि. ष्टवानित्याह । अस्मिन्प्रत्यक्षोपलक्ष्यमाणे जने तत्का. तत्त्वविमर्शबहिर्मुखतया प्राकृतप्राये लोके । कथंभूते, स्वयमात्मना विवादेन अहिले ग्रहग्रहित इव तस्मिन् । विवादलक्षण हरिभद्रसूरिराह - लब्धिख्यात्यर्थिना तु स्या:स्थितेनामहात्मना । छलजानिप्रधानो यः स विवाद इति स्मृतः ॥ १ ॥ तथा वितण्डा प्रतिपक्षस्थापनाहीनं वाक्यं । वितण्ड्यने आहन्यते अनया प्रति. Page #22 -------------------------------------------------------------------------- ________________ (१८) पक्षसाधनमिति व्युत्पत्तेः। षस्तुतस्तु अपरामृष्टतत्वातत्त्वविचारं मौख्यं वितण्डा । तत्र यत्पाण्डित्यं निपुणता तया कण्डूलमिव कण्डूलं मुख यस्य स तस्मिन् ॥१०॥ अधुना मीमांसकभेदाभिमतं वेदविहितहिंसायो धर्महेतु. स्वमुपपत्तिपुरःसरं निराकुर्वन्नाहन धर्महेतुर्विहितापि हिंसा, नोत्सृष्टमन्यार्थमपोद्यते च ॥ स्वपुत्रघातान्नृपतित्वलिप्सा, स ब्रह्मचारि स्फुरितं परेषाम् ॥११॥ व्याख्या-नेति विहितापि वेदप्रतिपादितापि हिंसा प्राणिपाणव्यप( रोपण)रूपा न धर्महेतुः म धमौनुबन्धनिबन्धनं । अत्र स्ववाक्यविरोधः। हिंसा चेत् धर्महेतुः कथं, धर्महेतुश्चेत् हिंसा कथमिति । नोत्सष्टमित्यन्यार्थमिति मध्यवत्तिपदं डमरुकमणिन्यायेनो. भयत्रापि सम्बन्धनीयम अन्यायमुत्सृष्टम् अन्यस्मै कायोय प्रयुक्तं । उत्सगंवाक्यमन्यार्थप्रयुक्तेन वाक्येन नापोद्यते नापवादगोचरी क्रियते । यमेवार्थमाश्रित्य शास्त्रेपृत्सर्गः प्रवर्तते तमेवार्थमाश्रित्यापवादोऽपि प्रवत्तते । तयोनिम्नोनतादिव्यवहारवत्परस्परसापेक्षत्वे. नैकार्थसाधनविषयत्वात् । स्वपुत्रधातात निजसुतनिपा Page #23 -------------------------------------------------------------------------- ________________ तनेन नृपतित्व लिप्सा राज्यप्राप्तिमनोरथसहश । यथा कश्चिदविपश्चित पुरुषः परुषाशयतया निजमंगज व्यापाच राज्यश्रियं प्राप्तुमीहते । न तस्य तत्प्राप्तावपि पुत्रघातपातककलंकः क्वचिदपयाति । एवं घेदविहितहिंसया देवतादिप्रीतिसिद्धावपि हिंसासमुत्थं पापं न. पराहन्यते ॥ ११॥ साम्प्रतं नित्यपरोक्षज्ञानवादिनां मीमांसकभेदभट्टाना. मेकात्मसमवायिज्ञानान्तरवेधज्ञानवादिनां च यौगानमतं विकुट्टयन्नाहस्वार्थावबोधक्षम एव बोधः, प्रकाशते नार्थकथाऽन्यथा तु ॥ परे परेभ्यो भयतस्तथापि, प्रपेदिरेऽज्ञानमनारमनिष्ठम् ॥ १२ ॥ व्याख्या-स्वार्थेति,, बोधो ज्ञानं स च स्वार्थाव. बोधक्षम एव समर्थ एव प्रतिभासते । विपर्यये दूषणमाह-नार्थकथाऽन्यथा तु । (तु शब्दोऽवधारणे भिन्नंकमश्च सचार्थकथया सह योजित एव)। अन्यथा अर्थ प्रकाशने ज्ञानस्थ स्वसंविदितत्वानभ्युपगमेऽर्थकथैब नस्यात् । अर्थकथा पदार्थसम्बन्धिनी वार्ता सदसरूपात्मकं स्वरूपमिति यावत् । तथापि ज्ञानस्य स्वविदि Page #24 -------------------------------------------------------------------------- ________________ तत्वे युक्त्या घटमानेऽपि परे तीर्थान्तरीयाः ज्ञानं कर्मतापनमनात्मनिष्ठं न विद्यते आत्मन: स्वस्य निष्ठानिश्चयो यस्य तदनात्मनिष्ठं अस्वसंविदितमित्यर्थः प्रपेदिरे प्रपन्नाः । कुत इत्याह--परेभ्यो भयतः । पूर्वपक्षवादिभ्यः सकाशात् ज्ञानस्य स्वसंविदितत्वं नोपपद्यते स्वात्मनि क्रियाविरोधादित्युपालम्भसम्भा. वनासम्भवं यद्भयं तस्मात्तदाश्रित्येत्यर्थः ॥ १२॥ अथ ये ब्रह्माद्वैतवादिनोऽपरपर्यायमायावशात्प्रतिभासमानत्वेन विश्वत्रयवर्तिवस्तुप्रपञ्चत पारमार्थिकं समर्थयन्ते । तन्मतमुपहसन्नाह- . माया सती चेवयतत्वसिद्धि रथासती हन्त कुतः प्रपञ्चः ॥ मायैव चेदर्थसहा च तत्किं, माता च वन्ध्या च भवत्परेषाम् ॥१६॥ व्याख्या-मायेति,, तै वादिभि माया अविद्या प्रपंचहेतुः कल्पिता सा सद्रपाऽसदूपा वा । सती सदुपाचे त्तदा इयतत्त्वसिद्धिः द्वौ अवयवौ यस्य तह. यं तथाविधं यत्तत्त्वं परमार्थ स्तस्यसिद्धिः । एवं सति एकं ब्रह्म द्वितीया माथा । तदा अद्वैतवादस्य मूले . कुठारो निहितः । अथेति पक्षान्तरे । यदि असतीखपु Page #25 -------------------------------------------------------------------------- ________________ पववस्तुरूपा, तर्हि अयं प्रपञ्चः कुतो न कुलोऽप्यासंद भवीत्यर्थः । हन्तेत्युपदर्शने आश्चर्य वा। माया च भविष्यति अर्थसहा च भविष्यति अर्थसहार्थक्रिया: समर्थपदार्थोंपदशनक्षमा । इति चेत् तत्किं भवत्परेषां माता च वन्ध्या सम्भाव्यते । किमिति संभावने अव्ययं । भवतो ये परे प्रतिपक्षास्तेषां भधदाज्ञा पृथक मृतत्वेन वादिनां माता चेत्कं वन्ध्या वन्ध्याचेत्कथं माता इति स्पष्ट एवं स्ववचनविरोधः इत्यर्थः।। १३ ॥ अथ स्वाभिमतसामन्यविशेषोभयात्मकवाच्यवाचक भावसमर्थनपुरस्सरं तीर्थान्तरीयप्रकल्पिततदेकान्तगोचरवा. ध्यषाचक भावनिरासद्वारेण तेषां प्रतिभावैभवाऽभाषमाहअनेकमेकात्मकमेव वाच्यं हयात्मकं वाचकमप्यवश्यम् ॥ अतोऽन्यथा वाचकवाच्यक्लप्ता वतावकानां प्रतिभाप्रमादः ॥ १४॥ व्याख्या-अनेकमिति,, वाच्यमभिधेयं चेतनमचे तनं वस्तुसामान्यरूपतया एकात्मकमपि व्यक्तिभेदेनाऽने कमनेकरूपं । तथा वाचकमभिधायक शब्दरूपं सदप्यवश्यं निश्चितं यात्मकं सामान्यविशेषात्मकत्वादनेकात्मकमित्यर्थः । अत उपदर्शितप्रकारादन्यथा Page #26 -------------------------------------------------------------------------- ________________ (२२) सामान्यविशेषैकान्तरूपेण प्रकारेण वाचकवाच्यक्लतौ वाच्यवाचकभाबकल्पनायामतावकानामत्वदी. यानामन्ययूथ्यानां प्रतिभाप्रमादः प्रज्ञास्खलितमित्यभरार्थः ॥ १४ ॥ इदानीं सांख्याभिमतप्रकृतिपुरुषादितत्यानां विरोधावरुद्धत्वं ख्यापयन् तबालिशताविलसितानामपरिमितत्वं दर्शयति चिदर्थशन्या च जडा च बुद्धिः, . शब्दादितन्मात्रजमम्बरादि ॥ न बन्धमोक्षा पुरुषस्य चेति, कियज्जडैन ग्रथितं विरोधि ॥ १५ ॥ व्याख्या-चिदिति, चित् चैतन्यशक्तिरात्मस्वरूपभूता, अर्थशून्या-विषयपरिच्छेदविरहिता, १ बुद्धिमहत्तत्वाख्या जडा-अनवबोधस्वरूपा, २ अम्बरादि-व्योमप्रभृति भूतपञ्चकं शब्दादितन्मात्रज, ३ पुरुषस्य च प्रकृतिविकृत्यनात्मकस्यात्मनो न बन्ध. मोक्षौ, किन्तु प्रकृतिरेवेति चतुर्थो इति शब्दः प्रका राथः । एवं प्रकारमन्यदपि विरुद्ध जडै-मूर्खस्तत्त्वावबोधविधुरधीभिः कापिलैः कियन्न ग्रथितं- स्वशास्त्रेपनिबद्धं । अपि त्वनंतचिशक्तिरर्थशन्या चेति, Page #27 -------------------------------------------------------------------------- ________________ (न)तदाचिच्छक्तिरेव न स्यात् घटवत् । नहि जडस्व: रूपायां बुद्धौ विषयाऽध्यवसायः व्योम्नः सर्ववादिमिनित्यत्वमंगीक्रियते । अयं च शब्दतन्मात्रात् । न च परिणामिकारणं स्वकार्यस्य गुणो भवितुमहतीति शब्दगुणमाकाशमित्यादि वाङ्मानं । वागादीनां चे. न्द्रियत्वमेव न युज्यते, इतरासाध्यकार्यकारित्वाभावात् । न बन्धमोक्षौ पुरुषस्येति,, तन्न, अनादिभवपरम्परानुबद्धया प्रकृत्या सह यः पुरुषस्य विवेको ग्रहणलक्षणोऽविष्वग्भावः स एव बन्धः, य एव बद्धः स. एव मुच्यते इति पुरुषबन्धमोक्षौ ।। १५ ॥ इदानीं ये प्रमाणादेकान्तेनाभिन्न प्रमाणफलमाहु ये व बाह्यार्थप्रतिक्षेपेण ज्ञानाद्वैतमेवास्तीति ब्रुषते तन्मतस्य विचार्यमाणत्वे विशरारुतामाहुः - न तुल्यकालः फलहेतुभावो, हेत विलीने न फलस्य भावः ॥ - न संविदद्वैतपथेऽर्थसंवि हिलूनशी% सुगतेन्द्रजालम् ॥ १६ ॥ व्याख्या-नेति, कल कार्य हेतुः कारणं । तयो भर्भावः स्वरूपंकार्यकारगभावः । स न तुल्यकालः समानकालो युज्यते इत्यर्थः । हेतौ कारणे प्रमाणलक्षणे Page #28 -------------------------------------------------------------------------- ________________ (२४) ने विनष्टे फलस्य प्रमाणकार्यस्य न भावः न सत्ता निर्मूलत्वात् सम्यगवैपरीत्येन विद्यते अवगम्यते वस्तुस्वरूपमनयेति संवित् ज्ञान।तस्या अद्वैतं । द्वयोर्भावो द्विता । द्वितैव तंप्रज्ञादित्वात् स्वाथकेऽणि । न द्वैतम. द्वैतं संविदद्वैतं ज्ञानं तात्विकं । तस्य पन्था मार्गःसंविद द्वैतपथस्तस्मिन् ज्ञानाद्वैतवादपक्षे इति यावत्।किमित्याह तत्रार्थसविन घटते एवं स्थिते सति किमित्याह-विलूनेति,, मुगतो मायापुत्रस्तस्य सम्बन्धि तेन परिकल्पितं क्षणक्षयादि वस्तुजातं मतिव्यामोहविधातृत्वात् । सुगतेन्द्रजालं तत्सर्व विळून विशीणे पूर्व विलूनं पश्चात् शीण ॥ १६॥ अथ तस्वव्यवस्थापकप्रमाणादिचतुष्टयव्यवहोरापलापिनः शून्यवादिनः सौगतजातीयास्तस्कक्षीकृतपक्षसाधकस्य प्रमाणस्याङ्गीकाराऽनङ्गीकारलक्षणपक्षयेऽपि तदभिमतार्थाऽसिद्धिप्रदर्शनपूर्वकमुपहसन्नाहविना प्रमाणं परवन्न शन्यः स्वपक्षसिद्धेः पदमश्नुवीत ॥ कृप्येत्कृतान्तः स्पृशते प्रमाण महो सुदृष्टं त्वदसूयिदृष्टम् ॥ १७ ॥ व्याख्या--विनेति,, शून्यः शून्यवादी प्रमाणे प्रत्यक्षादिकं विना स्वपक्षसिद्धेः स्वाभ्युपगतशून्यवानिष्प Page #29 -------------------------------------------------------------------------- ________________ (२५) त्तेः पदं प्रतिष्ठां नाश्रुवीत न प्राप्नुयात् । किंवत् । परवत् इतरप्रामाणिकवत् । वैधम्येणायं दृष्टान्तः । यथा परे प्रामाणिकाः प्रमाणेन साधकतमेन स्वपक्षसिद्धिमअनुक्ते एवं नायं, अस्य मते प्रमाणप्रमेयादिव्यवहारस्याऽपारमार्थिकत्वात् । कुप्येदिति,, प्रमाणं प्रत्यक्षाघन्यतमत्स्पृशते आश्रयमाणाय प्रकरणादस्मै शुन्यवादिने कृतान्तः तत्सिद्धान्तः कुप्येत् कोपं कुर्यात् । सि. द्धान्तबाधः स्यादित्यर्थः । अहो इत्युपहासप्रशंसायां । तुभ्यमसूयन्ति गुणेषु दोषानाविष्कुर्वति इत्येवं शी. लास्त्वदस्यिमस्तन्त्रान्तरोयास्तैदृष्टमत्यज्ञानचक्षुषा निरीक्षितं , अहो सुदृष्टं विपरीतलक्षणयोपहासान सम्यग्इष्टमित्यर्थः ॥ १७ ॥ अधुना क्षणिकवादिन पहिकाऽमुध्मिकव्यवहाराऽनुपपन्नार्थसमर्थनमविमृश्यकारितं दर्शयन्नाह- ...... कृतप्रणाशाऽकृतकर्मभोग भवप्रमोक्षस्मृतिभङ्गदोषान् ॥ उपेक्ष्य साक्षात् क्षणभङ्गमिच्छ--- नहो महासाहसिकः परस्ते ॥ १८ ॥ व्याख्या-कृतेति, कृतप्रणाशदोषमकृतकर्मभोगदोषं भवभङ्गदोषं प्रमोक्षभङ्गदोषं स्मृतिभङ्गदोषमि Page #30 -------------------------------------------------------------------------- ________________ . (२६) त्येतान् दोषान् साक्षादनुभवसिद्धान् उपेक्षानाहत्य साक्षात्कुर्वनपि गजनिमीलिकामवलम्बमानः सर्वभा. बानां क्षणभङ्गमुदयानन्तरविनाशरूपक्षणक्षयितामिछन् प्रतिपद्यमानस्ते तव परः प्रतिपक्षी वैनाशिक: सौगत इत्यर्थः । सहसा अविमर्शात्मकेन बलेन वर्तते. साहसिकः। भाविनमनश्रमविभाव्य यः प्रवर्तते स एवमुच्यते । महाश्वासौ साहसिकश्च महासाहसिक अत्यन्तमविमृश्य प्रवृत्तिकारोत्यर्थः ॥ १८॥ अथ तथागताः क्षणक्षयपक्षे सव्यवहारानुपपत्तिं परसद्भावितामाकण्ये त्थं प्रतिपादयिष्यन्ति यत्पदार्थानां श्रणिकत्वेऽपि वासनापल लब्धजमना पेक्याध्यवसायेन पैहिका मुष्मिकव्यवहारप्रवृत्तेः कृतप्रणाशादिदोषाः निरवकाशा पवेति तदाकूतं परिहतुकामस्तत्कल्पितवासनायाः क्षणपरम्परातो भेदाभेदानुभयलक्षणे पक्षत्रयेऽप्यघटमानत्वं दर्शयन् स्वाभिप्रेतभेदाभेदस्यावादमकामानपि तानङ्गीकारयितुमाह-- सा वासना सा क्षणसन्ततिश्च, नाऽभेदभेदाऽनुभयैर्घटेते ॥ ततस्तटाऽदीशकुन्तपोत न्यायात्त्वदुक्तानि परे श्रयन्तु ॥ १९ ॥ व्याख्या सेति,,सा शाक्य परिकल्पिता क्षणानामन्योन्यानुस्यूतप्रत्ययजनिका वासना पूर्वज्ञानजनिता Page #31 -------------------------------------------------------------------------- ________________ मुत्तरज्ञाने शक्तिमाहुः । सा च क्षणसन्ततिस्तदर्शनप्रसिद्धा प्रदीपलिकावनवनवोत्पद्यमाना क्षणपरम्परा । एने द्वेऽपि अभेदभेदाऽनुभयनै घटेते । न तावदभेदेन तादात्म्येन ते घटेते तयोहिं अभेदे वासना वा स्यात क्षणपरम्परा वा, न इयम । यदि यस्मादभिन्नं न तत्ततः पृथगुपलभ्यते । यथा घटात् घटस्वरूपम् । न च भेदेन ते युज्यते । सा वासना क्षणिका चेत्तहिं क्षणेभ्यस्तस्याः पृथक्कल्पनं व्यर्थम् अक्षणिका चेत्त. था पदार्थान्तराणां क्षणिकत्वकल्पनाप्रयासो व्यसनमात्रम् । अनुभयपक्षणापि न घटेते । उत्तरार्धमाह त. त इति,त्वदुक्तानि भवद्वचनानि भेदाभेदस्याबादसंवादपूतानि परे कुतीर्थ्याः सौगताः प्रयन्तु माद्रियन्ताम् । अत्रोपमानमाह-तटादीत्यादि, तटं न पश्यतीति तटादर्शी यः शकुन्तपोतः पक्षिशावकस्तस्य न्याय उदाहरणं । यथा शकुनिशावकः समुद्रान्तः पतितस्तटप्राप्तये मुग्धतयोडीनः अब्धिमवलोकयस्तटमदृष्टवैव तदेव तटस्थानमाश्रयते गत्यन्तराभावात् । ए. वं कुत्तीर्थ्यास्तदुक्तं भेदाभेदपक्षमनिच्छयापि कक्षीकुवाणास्त्वच्छासनमेव प्रतिपयन्ताम् ॥ १९ ॥ साम्प्रतमक्रियाषादिनां लोकायतिकानां मतं सर्वाधमा स्वादन्ते उपन्यस्यन् तम्मतमूल्यस्य प्रत्यक्षप्रमाणस्यानुमा-.. नादिप्रमाणान्तरानङ्गीकारेऽकिश्चित्करस्वप्रदर्शनेन तेषां प्र.... झायाः प्रमादमादर्शयति Page #32 -------------------------------------------------------------------------- ________________ (२८) विनाऽनुमानेन पराभिसन्धिमसंविदानस्य तु नास्तिकस्प ॥ न साम्प्रतं वक्तुमपि क्व चेष्ट क्व दृष्टमात्रं च हहा प्रमादः ॥ २० ॥ व्याख्या - विनेति, प्रत्यक्षमेवैकं प्रमाणमिति मन्यते चावकः । अनुमानेन लैङ्गिकप्रमाणेन विना पराभिसन्धिं पराभिप्रायमसंविदानस्य न सम्यकू जानानस्य नास्तिकस्य लोकायतिकस्य वक्तुमपि न साम्प्रतं वचनमप्युच्चारयितुं नोचितम् । ततस्तूष्णीभाव एवाऽस्य श्रेयान् । कथं क्वेति महदन्तरे । चेष्टा इङ्गितं अनुमेयस्य लिङ्गम् । क्व च दृष्टमात्रं प्रत्यक्षमात्रं । अ तः हहा इति खेदे | अहो तस्य प्रमादः प्रमत्तता, यदनु भूयमानमप्यनुमानं प्रत्यक्षमात्राङ्गीकारेणापन्हुते ||२०|| अथानेकान्तवादं ये मन्यन्ते तेषामुन्मत्ततामाविर्भावय ब्राह प्रतिक्षणोत्पादविनाशयोगिस्थिरैकमध्यक्षमपीक्षमाणः ॥ जिन ! स्वदाज्ञामवमन्यते यः स वातकी नाथ पिशाचकी वा ॥ २१॥ Page #33 -------------------------------------------------------------------------- ________________ (२९) व्याख्या- प्रतिक्षणं प्रतिसमयमुत्पादेनोत्तराकारस्वीकाररूपेण विनाशेन च पूर्वाकारपरिहारलक्षणेन युज्यते इत्येवं शीलं प्रतिक्षणोत्पादविनाशयोगि । किं. तत् ? स्थिरैकं कर्मतापत्रम। स्थिरमुत्पादविनाशयोरनुयायित्वात् त्रिकालवति यदेकं वस्तु अध्यक्षमपीक्षमाणः प्रत्यक्षमवलोकयपि हे जिन रागादिजैत्र ! त्वदा. ज्ञा भवत्प्रणीतस्याबादमुद्रां यः कश्चिदविवेकी अवमन्यतेऽवजानाति स पुरुषपशुर्वातकी पिशाचकी था। वातो रोगविशेषोऽस्यास्तीति चातकी वातुल इत्यर्थः। पिशाचकी भूताविष्ट इत्यर्थः ॥ २१॥ ... अथ स्यानादव्यवस्थापनाय प्रयोगमासमन्ताति माहअनन्तधात्मकमेव तत्त्व मतोऽन्यथा सत्त्वमसूपकोटा इति प्रमाणान्यपि ते कुवादि- - कुरङ्गसन्त्रासनसिंहनादाः ॥ २२ ॥ व्याख्या-अनन्तेति,, तत्त्वं परमार्थभूतं वस्तु जीवाजीवलक्षणमनन्तधर्मात्मकमेव । अनन्तास्त्रिका. लविषयत्वादपरिमिता ये धर्माः सहभाविनः क्रमभाविनश्च पर्यायास्त एवात्मा स्वरूपंयस्य तदनन्त ध. Page #34 -------------------------------------------------------------------------- ________________ मात्मकम् एवकारः प्रकारान्तरव्यवच्छेदार्थः। अत एवाह." अतोऽन्यथा" उक्तप्रकारवैपरीत्येन सत्त्वं वस्तु तस्वमसूपपादम् । सुखेनोपपाद्यते इति सूपपादम् । न तथा असूपपादम् । दुर्घटमित्यर्थः । ते तव प्रमाणान्यपि न्यायोपपनसाधनवाक्यान्यपि। कुवादिनः कुत्सितवादिन एकांशग्राहकनयाऽनुयायिनोऽन्यतीर्थिकास्त एव संसारवनगहनवसनव्यसनितया कुरङ्गास्तेषां सम्यक्त्रासने सिंहनादा इव सिंहनादाः । यथा सिंहस्य नादमात्रमप्याकण्यं कुरङ्गास्त्रासमासूत्र. यन्ति तथा भवत्प्रणीतप्रमाणवाक्यान्यपि श्रुत्वा कुवादिननासमश्नुवते ॥ २२ ॥ अनन्तरमनन्तधर्मात्मकत्वं वस्तुनि साध्यं मुकुलित. मुक्तम् । तदेव सप्तभङ्गीप्ररूपणद्वारेण प्रपश्चयन भगवतो निरतिशय वचनातिशयं च स्तुवन्नाहअपर्ययं वस्तु समस्यमान मद्रव्यमेतच्च विविच्यमानम् ॥ आदेशभेदोदितसप्तभङ्ग मदीहशस्त्वं बुधरूपवेद्यम् ॥ २३ ॥ व्याख्या-अपर्ययमिति । समस्यमानं संक्षेपेणोच्यमानं वस्त्वपर्ययमविवक्षितपर्यायम् । वसन्ति गु Page #35 -------------------------------------------------------------------------- ________________ णाः पर्याया अस्मिन्निति वस्तु धर्माधर्माकाशपुयल. कोलजीवलक्षणं षट् द्रव्यात्मकमपर्ययःसन् द्रव्यहपमेव च । पुनरेतबस्तु विविच्यमानं विवेकेन पृथकरू. पतयोच्यमानमद्रव्यमेव । कथमित्याह-आदेशभेदेन सकलादेशविकलादेशलक्षणेन आदेशद्रयेन उदिताः सप्तसंख्या भङ्गा वचनप्रकारा यस्मिन् वस्तुनि तत्तथा। ननु भगवतैवमुक्तं तर्हि किमर्थ तीर्थान्तरीयास्तत्र विप्रतिपद्यन्ते, इत्याह-" बुधरूपवेद्य" प्रकृष्टा बुधरूपा ज्ञानशालिनः प्राणिनः । तैरेव वेदितुं शक्यं वेद्यं । नान्यैर्मिथ्यादर्शनत्वात् ॥ २३ ॥ अथाबुधरूपाणां प्रमाणमार्गात् च्यवनमाहउपाधिभेदोपहितं विरुद्धं, नार्थेष्वसत्त्वं सदवाच्यते च ॥ इत्यप्रबुद्ध्यैव विरोधभीता, जडास्तदेकान्तहताः पतन्ति ॥ २४ ॥ व्याख्या-उपाधीति अर्थेषु पदार्थेषु चेतनाचेतनेवसत्वं नास्तित्वं न विरुद्धं । अस्तित्वेन सह विरा. धं नाऽनुभवतीत्यर्थः । न केवलमसत्वं न विरुद्धं (किं तु सदवाच्यते च ) अस्तित्वं नास्तित्वेन सह न विरुध्यते । अवक्तव्यत्वमपि नान्योऽन्यं विरुध्यते। Page #36 -------------------------------------------------------------------------- ________________ हेतुमाह-उपाधयोऽवच्छेदका अंशप्रकारास्तेषां भेदो नानात्वं तेनोपहितमर्पितम् । असत्वस्य विशेषणमिदम् । उपाधिभेदोपवादिनस्तेषां सत्वादिधर्माणां य एकान्तस्तेन हता इव हताः पतन्ति स्खलन्ति ॥ २४ ॥ अथानेकान्तवादस्य सर्वद्रव्यपर्यायव्यापित्वेऽपि मूलभेदापेक्षया चातुर्विद्याभिधानद्वारेण भगवतस्तत्वामृतरसा स्वादसौहित्यमुपवर्णयन्नाहस्यान्नाशि नित्यं सदश विरूपं, वाच्यं न वाच्यं सदसत्तदेव ॥ विपश्चितां नाथ निपीततत्व.. सुधोगतोद्गारपरम्परेयम् ॥ २५ ॥ व्याख्या-स्यादित्यव्ययमनेकान्तद्योतकम् । तदष्टास्वपि योज्यम्। स्यात्कथंचिन्नाशि अनित्यशीलम् । स्यानित्यमविनाशधर्मीत्यर्थः एतावता नित्यानित्यल. क्षणमेकं विधानम्। स्यात्सदृशं सामान्यरूपम्। स्यादिरूपं विविधरूपम् विसदृशरूपम् । अनेन सामान्यविशेषरूपो द्वितीयः प्रकारः । स्याद्वाच्यं वक्तव्यं । स्यानवाच्यमवक्तव्यम् इत्यर्थः । एतेनाभिलाप्याऽनभिलाप्यस्वरूपरतृतीयो भेदः। स्यात्सद् विद्यमानमस्तिरूपमित्यर्थः । स्यादसत्तद्विलक्षणमिति । अनेन सदसदाख्या Page #37 -------------------------------------------------------------------------- ________________ चतुर्थी विधा । हे विपश्चितां नाथ संख्यावतां मुख्य ! इयमनन्तरोक्ता निपीततत्वसुधोद्गतोद्गारपरम्परा तवेति प्रकरणाद् गम्यते । तत्वं स्वरूपं परिच्छेदस्तदेव जरामरणापहारित्वात्सुधा पीयूषं तत्वसुधा नितरां पीता आस्वादिता तस्या उद्गता प्रादुर्भूता उद्गारपरंपरा उद्गारश्रेणिरित्यर्थः ॥ २५ ॥ सप्तभङ्गी यथा स्यादस्ति १ स्यानास्ति २ स्यादस्ति स्यान्नास्ति ३ स्यादवक्तव्यम ४ स्यादस्ति स्यादवक्तव्यम् ५ स्यान्नास्ति स्यादवक्तव्यम् ६ स्यादस्ति स्यानास्ति स्यादवक्तव्यम् इति सप्तमम् ॥ २५ ॥ इदानीं निन्याऽनित्यपक्षयोः परस्परदूषणप्रकाशनबद्धलक्षतया पैरायमाणयोरयत्नसिद्धप्रतिपक्षप्रतिक्षेपस्य भगवच्छासनसाम्राज्यस्य सर्वोत्कर्षमाहय एव दोषाः किल नित्यवादे, बिनाशवादेऽपि समास्त एव ॥ परस्परध्वंसिषु कण्टकेषु, जयत्यधृष्यं । नशासनं ते ॥ २६ ॥ व्याख्या-य इति, किलेति निश्चये । य एव नित्यवादे दोषा अनित्यैकान्तवादिभिः प्रसञ्जिताः क्रमयोगपद्याभ्यामर्थक्रियाऽनुपपत्त्यादयस्त एवं विनाशवा Page #38 -------------------------------------------------------------------------- ________________ (३४) देऽपि क्षणिकैकान्तवादेऽपि नित्यैकान्तवादिभिः प्रस. ज्यमाना अन्यूनाधिकाः समास्तुल्याः । तथाहि-नित्यवादी प्रमाणयति ।" सर्व नित्यं सत्वात् । क्षणिके सदसत्कालयोरर्थक्रियाविरोधात । अनित्यवादी वदति "सर्व क्षणिक सत्त्वात्" अक्षणिके ऋमयोगपचाभ्यामथक्रिया विरोधादित्यादि, अर्थक्रियाकारित्वस्य च भा. पलक्षणत्वात् । परस्परेति कण्टकेषु क्षुद्रशत्रुषु एकान्त. पादिषु परस्परध्वंसिषु सत्सु, हे जिन ते तव शासनं स्याबादप्ररूपणनिपुणं द्वादशाङ्गीरूपं प्रवचनं पराभिभावुकानां कण्टकानां स्वयमुच्छिन्नत्वेनैवभावादभ्रष्यमपराभवनीयं धर्षितुमशक्यमनह वा जयति सर्वोत्कर्षेण वर्तते ॥ २६ ॥ नेकान्तवादे सुखदुःखभोगा, न पुण्यपापे न च बन्धमोक्षौ ॥ दुनातिवादव्यसनानि नंव पर्वलुप्तं जगदप्यशेषम् ॥ २७ ॥ व्याख्या-नेति, एकान्तवादे नित्यानित्यैकान्तपक्षाभ्युपगमे न सुखदुःखभोगी घटेते, न च पुण्यपापे घटेते, न च बन्धमोक्षौ घटेते। पुनः पुनः नत्रः प्रयोगोऽत्यन्ताऽघटमानतादर्शनार्थः। मुखदु:खभोगी Page #39 -------------------------------------------------------------------------- ________________ पुण्यपाप नियों । पुण्यं दानादि क्रियोपार्जनीयं शुभ कर्म । पापं हिंसादिक्रियांसाध्यमशुभ कर्म - न्धः कर्मपुद्गलैः सह प्रतिप्रदेशमात्मनो वापि"ण्डवदन्योऽन्यसंश्लषः मोक्षः कृत्स्नकर्मक्षयः । एवं. मनुपपद्यमानेऽपि सुखदुःखभीगादिव्यवहारे परैः परतीथिकः परमार्थतः शत्रुभिः दुर्नीतिवादव्यसनासिना । दुष्टा नीतयो दुर्नीतयो दुनयाः । तेषां वादस्तंत्र व्यसनमत्यासक्तिः दुर्नीतिवादव्यसनमेव सद्बोधशरीरच्छेदकत्वादसिः कृपाणस्तेन करणभूतेन दुर्नयमपणहेवाकखङ्गेन । अशेषमपि जगनिखिलमपि त्रैलोक्यं जगजन्तुजात विलुप्त, सम्यकज्ञानादिभावप्राणः व्यपरोपणेन व्यापादितं । तत् प्रायस्वेत्याशयः ॥२७॥ अथ दुर्नयस्वरूपं वर्णयन् भगवतो बचवातिशय स्तुवन्नाहसदेव सत् स्यात्सदिति त्रिधाऽयों, मीयेत दुर्नीतिनयप्रमाणेः॥ यथार्थदर्शी तु नयप्रमाण पथेन दुर्नीतिपथं त्वमास्थः ॥ २८॥ व्याख्या सदिति, परिच्छिद्यते इत्यर्थः पदार्थ विधा त्रिभिः प्रकारेमीयेत परिच्छियेत विधौ सप्त Page #40 -------------------------------------------------------------------------- ________________ मी। कैस्त्रिभिः प्रकारैरित्याह--दुर्नीतिनयप्रमाणः । नीयते एकदेशविशिष्टोऽर्थ आभिरिति नीतयो नयाः । दुष्टा नीतयो दुर्नयाः । नया नैगमाद्याः । प्रमीयते परिच्छिद्यते अर्थोऽनेकान्तविशिष्टोऽनेनेति प्रमाणं स्याद्वादात्मकं प्रत्यक्षपरोक्षलक्षणम्। तैः केनोल्लेखेन मीयेतेत्याह-सदेव सत्स्यात्सदिति । सदित्यव्यक्तत्वान्नपुंसकत्वम् । यथा किं तस्या गर्भ जातमिति । सदेवेति दुनयः । सदिति नयः स्यात्सदिति प्रमाणम् । इत्थं वस्तुस्वरूपमुक्त्वा स्तुतिमाह- यथार्थदशीत्यादि । दुनौतिपथं दुर्नयमार्ग । तुशब्दोऽत्रावधारणाधः। त्वमेवास्था त्वमेव निराकृतवात् । न तीर्थान्तरीयदैवतानि । केन कृत्वा ? नयप्रमाणपथेन। नयप्रमाणे उक्तस्वरूपे । तयोर्मागेण प्रचारेण । यतस्त्वं यथार्थदी । यथार्थोऽस्ति तथैवपश्यतीत्येवंशीलो यथार्थदर्शी । विमलकेवलज्योतिषा यथावस्थितवस्तुदशी तीर्थान्तरशास्ता रस्तु रागादिदोषकालुष्यकलङ्कितत्वेन तथाविधज्ञानाभा. वान यथार्थदर्शिनः। आस्थ इत्यस्यतेरद्यतन्यां" शास्त्यस्ति वक्तिख्यातेरङ्" इत्यङि " श्वयत्यस्तवचपतश्वा.. स्थवोचपप्तम्" इति स्थादेशे " स्वरादेस्तासु" इति वृद्धौ रूपम् । अत्रैकत्र कृतसमासान्तः पथिन् शब्दोऽ. न्यत्राव्युत्पन्नः पथशब्दोऽदन्त इति पथशब्दस्य द्विः प्र. योगो न दुष्यति इति काव्यार्थः ॥ २८ ॥... Page #41 -------------------------------------------------------------------------- ________________ इदानीं सनीपसमुद्रमांत्रो लोक इति वावदूकानां तन्मात्र लोके परिमितानामेव सत्स्वाना सम्भवात् परिमितात्मवादिनां दोषदर्शनमुखेन भगवत्प्रीणत जीवाऽनन्त्यवादं निदोषतयाऽभिष्टुवन्नाहमुक्तोऽपि वाऽभ्येतु भवं भवो वा, भवस्थशन्योऽस्तु मितारमवादे ॥ षड्जीवकायं त्वमनन्तसंख्य माख्यस्तथा नाथ? यथा न दोषः ॥२९॥ व्याख्या-मुक्त इति., मितात्मवादे संख्यातानामात्मनामभ्युपगमे दूषणद्वयमुपतिष्ठते । तत्क्रमेण दशयति । मुक्तो निति प्राप्तः सोऽपि भवं संसारमभ्येतु अभ्यागच्छतु । इत्येको दोषः । भवो वा भवः संसारः । स वा भवस्थशून्यः। संसारिजीवैविरहितो. ऽस्तु भवत्विति द्वितीयो दोषः । एवं विभङ्गज्ञानिशिघराजषिमतानुसारिणो दूषयित्वोत्तरार्द्धन भगवदुप. ज्ञमपरिमितात्मवादं निर्दोषतया स्तौति । षड्जीवेत्यादि । त्वं तु हे नाथ अनन्तसंख्यमनन्ताख्यसंख्याविशेषयुक्तं षड्जीवनिकायं । पृथिव्यप्तेजोवायु बनस्पतित्रसलक्षणम् । तथा तेन प्रकारेण आख्या, मदिया प्ररूपितवान्, यथा येन प्रकारेण न दोषः, न दू. Page #42 -------------------------------------------------------------------------- ________________ (३८) षगमिति । जात्यपेक्षमेकवचनं । प्रागुक्तदोषद्वय जातीया अन्येऽपि दोषाः यथा न प्रादुष्यन्ति तथा त्वं जीवान न्त्यमुपदिष्टवानित्यर्थः । आख्यः इति आपूर्वस्य ख्यातेरङि सिद्धिः। पृथिव्यादीनां पुनर्जीवत्वमित्थं साधनीयम् । यथा सात्मिका विद्रमशिलादिरूपा पृ. थिवी, छेदे समानधातूत्थानादर्भाकुरवत् । भोममम्भोऽपि सात्मक क्षतभूसजातीयस्य स्वभावस्य स. म्भवात् शालूरवत् । आन्तरिक्षमपि सात्मकं, अभ्रा. दिविकारे स्वतः सम्भूय पातात मत्स्पादिवत् । ते जोऽपि सात्मकमाहारोपादानेन वृद्धयादिविकारोपलम्भात् पुरुषागवत् । वायुरपि सात्मकः अपरप्रेरितत्वे तिर्यग्गतिमत्वाद् गोवत् । वनस्पतिरपि सात्मकः छेदादिभिम्लान्यादिदर्शनात् पुरुषाङ्गवत् । केषांचित स्वापाङ्गनोपश्लेषादिविकाराच । अपकर्शवतश्चैतन्याहा सर्वेषां सात्मकत्वसिद्धिराप्तवचनाच । प्रसेषु च कृमिपिपीलिकाभ्रमरमनुष्यादिषु न केषांचित सात्म कत्वे विगानमिति । काव्यार्थ ॥ २९ ॥ अधुना परदर्शनानां परस्परविरुद्धार्थसमर्थकतया मत्सरित्वं प्रकाशयन् सर्वज्ञोपज्ञसिद्धान्तस्याऽन्योन्यानुगत सर्वनयमया मात्सर्याऽभावमाविर्भावयति । अन्योऽन्यपक्षप्रतिपक्षभावान्, Page #43 -------------------------------------------------------------------------- ________________ (३९) यथा परे मत्सरिणः प्रवादाः ॥ नया न शेषा न विशेषमिच्छन्, न पक्षपाती समयस्तथा ते ॥ ३० ॥ व्याख्या-अन्योन्येति,, यथा येन प्रकारेण परे भवच्छासनादन्ये प्रवादा दर्शनानि मत्सरिणः, अ. तिशयेन धोकषायकलुषितान्तःकरणाः सन्तः प्रवर्तन्ते । कस्मात् । अन्येति । पक्षःस्वसाधनोपन्यासः, प्रतिपक्षः तबिरोधी तस्य भावः प्रतिपक्षभावः अन्योन्यं परस्परं यः पक्षप्रतिपक्षभावस्तस्मात् । तथा तेन प्रकारेण ते तत्र समयः सिद्धान्तः न पक्षगती नैकप. क्षानुरागी । मत्सरित्वाऽभावमेव विशेषणद्वारेण स. मर्थयति । नयेति, अशेषान् समस्तानैगमादीन् अ. विशेष निर्विशेषं यथास्यात्तथा इच्छन्नाकाङ्क्षन् सर्वनयात्मकत्वादनेकान्तवादस्येत्यर्थः ॥ ३०॥ इत्थंकार कतिपयपदार्थविवेचनद्वारेण स्वामिनो यथार्थवादाख्यं गुणमभिष्टुत्य समग्रवचनातिशयव्यावर्णने स्वस्याऽसामर्थ्य दृष्टान्तपूर्वकमुपदर्शयन्नौद्धत्यपरिहाराय भजयन्तरतिरोहितं स्वाभिधानं च प्रकाशय निगमनमाहवाग्वैभवं ते निखिलं विवेक्तु माशास्महे चेन्महनीयमुख्य ?॥ Page #44 -------------------------------------------------------------------------- ________________ (४०) लकेम जङ्घालतया समुद्रं, __ वहेम चंद्रद्युतिपानतृष्णाम् ॥ ३१॥ व्याख्या-चागिति,,हे महनीय मुख्य ! । मह. नीयाः पूज्याः पञ्च परमेष्टिनः । तेषु मुख्यः प्रधानभूतः आद्यत्वात् । तस्य संबोधनम् । ते तब निखिलं कृत्स्नं वाग्वैभवं वचनसम्पत्प्रकर्ष विवेक्तुं विचारयितुं चे. यदि षयमाशास्महे इच्छामः । ततः किमित्याह । तदा इत्यध्याहार्यम् । तदा जलालतया जाड्विकतया वेगबत्तया समुद्रं लधेमः किल । समुद्रमिवातिक्रमामः । तथा वहेम धारयेमः । चन्द्रधुनीनां पानं । तत्र तु. खणा तर्षोऽभिलाषस्ताम् । इति काल्यार्थः ॥ ३१ ।। अथ भगवतः संसारे निमजितस्य य जगतोऽभ्युद्धरणे सामर्थ्य दशर्यस्तदुपास्तिविन्यस्तमानसानां पुरुषाणामौचि. तीचतुरतां प्रतिपादयति-- इदं तत्त्वाऽतत्वव्यतिकरकरालेऽन्चतमसे, जगन्मायाकारैरिव हतपरैही विनिहितम् ॥ तदुद्धत शक्तो नियतमविसंवादिवचनस्त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः।३२॥ व्याख्या-इदमिति,, इदं प्रत्यक्षोपलभ्यमानं जग. Page #45 -------------------------------------------------------------------------- ________________ ( ४१ ) द्विश्वम् । उपचाराज्जगद्वर्त्ती जनः । हतपरै: ( हता अधमा ये परे तीर्थान्तरीया हतपरे तैः ) मायाकारैरिवैन्द्रजालिकैरिव ( शाम्बरीयप्रयोगनिपुणैरिवेति यावत् ) अन्धतमसे निविडान्धकारे हा इति खेदे बिनिहितं विशेषेण निहितं स्थापितं पातितमित्यर्थः । कथंभूतेऽन्धतमसे, तत्त्वाऽतस्वव्यतिकरकराले तवं तवं च ततच्वे । तयोर्व्यतिकरो व्यतिसंकीर्णता स्वभावविनिमयस्तस्वातत्वव्यतिकरः । तेन कराले भयङ्करे । यत्रान्धतमसे तत्वेतत्वाभिनिवेशः, अतश्वे च तवाभिनिवेश इत्येवंरूपो व्यतिकरः सज्जायत इत्यर्थः । तज्जगदुडमोहमहान्धकारोपप्लत्वात् कटुंनियतं निश्चितं त्वमेव । नान्यः शक्तः समर्थः । किमर्थमित्थमेकस्यैव भगवतः सामर्थ्यमुपवयते ! इति विशेषणद्वारेण कारणमाह-अविसंवादिवचनः, न विसंवदतीत्येवं शीलम विसंवादि । तथाभूतं वचनमुपदेशो यस्याऽसावविसंवादिवचनः,, । अभ्यभिचारिवागित्यर्थः । तीर्थान्तरीयाप्ता हि न प्रकृतपरोक्षात्रयविशुद्धवादिन इति ते महामोहान्धतमसे एव जगत्पातयितुं समर्थाः, न पुनरुदुर्तुम् । अतः कारणात् । कुमतध्वान्तार्णवान्तः पतितभुवमाभ्युद्धारणाऽसाधारण सामर्थ्य लक्षणात् । हे श्रात + Page #46 -------------------------------------------------------------------------- ________________ (42) त्रिभुवनपरित्राणप्रवीण / त्वयि ( काववाऽवधारणस्य गम्यमानत्वात् त्वय्येव विषये, न देवान्तरे ) कृत्तघियः (करोतिरत्र परिकमणि वर्तते / यथा हस्तौ कु. रु पादौ कुरु इति / कृता परिकर्मिता तत्त्वोपदेशपेशलतत्तच्छास्त्राभ्यासप्रकर्षेण संस्कृता धीवुडियेषां ते कृतधियश्चिद्रपाः ) पुरुषाः कृतसपर्याः / प्रादिकं वि. नाप्यादिकर्मणो गम्यमानत्वात् वृताः कर्तमारब्धा सपर्या सेवाविधिर्यस्ते कृतसपर्याः इति काव्यार्थ // 32 // बिभ्राणे किल निर्जयाजिनतुलां श्री हेमचन्द्रप्रभो / तब्धस्तुतिवृत्तिनिर्मितमिषा द्भक्तिर्मया विस्तृता // निर्णेतुं गुणदूषणे निजगिरां तन्नार्थये सजनान् / तस्यास्तत्त्वमकृत्रिमं बहुमतिः सास्त्यत्र सम्यग् यतः // 1 // सावचूरिकान्य योगष्यव्यच्छदवा प्रिंशिका सम्पूर्णा //